________________
Jain Education
छिन्दन्ति, ओष्ठौ कर्णावपि छिन्दन्ति । तथा मद्यमाँ सरसगृद्धस्य मृषाभाषिणश्च जिह्वां वितस्तिमात्रामाकृष्य तीक्ष्णशूलाभिरभितापयन्ति-विध्यन्ति अपनयन्ति चेति गाथार्थः ।। २२ ।।
ते तिप्पमाणे तलसंyडब्ब, रातिंदियं तत्थ थणंति बाला । गलंति ते सोणिय प्रयमंसं, पज्जोइया खारपदिद्धियंगा ॥ २३ ॥
व्याख्या--ते नारकाच्छिन्ननाशिकष्ठकर्णाः रुधिरं 'क्षरन्तो' झरन्तो यस्मिन्प्रदेशे रात्रिदिनं गमयन्ति, तत्र ' वाला ' अज्ञास्तालसम्पुटा इव पवनेरिताः शुष्कतालपत्रसञ्चया इव 'स्तनन्तो' दीर्घमाक्रन्दन्तस्तिष्ठन्ति । 'प्रद्योतिता' वह्निना तापिताः क्षारेण []दिग्धाङ्गाः शोणितं पूयं मांसं च गलन्तीति गाथार्थः || २३ || किश्च -
जइ ते सुता लोहितप्रयपाई, बालागणीतेयगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिया लोहियपूइपुण्णा ॥ २४ ॥
व्याख्या - पुनः सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-त्वया 'श्रुता' आकर्णिता ? श्रीमहावीरप्रतिपादिता लोहितपूयपाचिनी कुम्भी, यस्यां लोहितं पूतिसहितं पच्यते, एवंविधा कुम्भी त्वया श्रुता । परं कथम्भूता कुम्मी १ बालाऽग्नितेजोगुणा - प्रकर्षेण तप्ता, 'महती' बृहत्तरा 'पोरसीय'त्ति पुरुषप्रमाणा अधिकं समुच्छ्रिता उष्ट्रिकाऽऽकृतिः समन्ततोऽग्निना प्रज्वालिता बीभत्स दर्शना, एवंविधा कुम्भी श्रीमहावीरेण प्रतिपादिता त्वया श्रुतेति गाथार्थः ॥ २४ ॥
१४
For Private & Personal Use Only
www.jainelibrary.org