SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कष्टमनाथोऽहं शरणागतस्तव, त्रायस्व माम् इत्येवमादीनां पदानां शब्दः श्रूयते । 'उदीर्ण' उदयप्राप्त कदविपाक कर्म येषां नारकाणां, तथा उदीणकर्माणो नरकपालाः पुनः पुनः ‘सरहं'ति 'सरमसं' सोत्साई नारकान 'दहिति' दुःखयन्त्यसचं दुःखमुत्पादयन्ति नानाविधैरुपायैरिति गाथार्थः ॥१८॥ पाणेहि णं पावे विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सोहिं दंडेहिं पुराकएहि ॥ १९ ॥ व्याख्या-ते नरकपाला: 'पापा' पापकर्माणो नारकाणां प्राणान् वियोजयन्ति' शरीराऽवयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति । किमर्थमेवं ते कुवन्ति? इत्याह-तदुःखकारणं 'मे' युष्माकं प्रवक्ष्यामि 'याथातथ्येन ' अवितथं प्रतिपादयामि । दण्डै-दुःखविशेपै रकाणामापादित'ला' निर्विवेकाः नरकपालाः पूर्वकृतं स्मारयन्ति । तद्यथा-तदा हृष्टस्त्वं खादसि ? समुत्कृत्योत्कृत्य प्राणिनां मांसं, तथा तद्रसं मद्यं च पिबसि, गच्छसि परदारान् , तत्कर्म साम्प्रतमुदयप्राप्तं तव, स्वकृतं कर्म भुञ्जन् किमेवं पूत्करोषि ? एवं ते नरकपालाः पुराकृतं दुष्कृतं स्मारयन्तस्तादृशमेव दुःखविशेषमुत्पादयन्तो पीडयन्तीति गाथार्थः ॥ १९ ॥ ते हम्ममाणा नरगे पडन्ति, पुण्णे दुरूवस्त महाऽभितावे । ते तत्थ चिट्ठति दुरूवभक्खी, तुइंति कम्मोवगया किमीहि ॥ २०॥ Jain Education in For Private Personal Use Only jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy