________________
सूयगहाङ्ग-
सूत्रं | दीपिकान्वितम् ।
५ नरकबिभक्क्य
ध्ययने
प्रथमो
॥७७॥
द्देशके
पाक, शाल्मल्यारोहणादिकं परमाऽधार्मिककृतं परस्परोदीरितं च कर्मणां विपाकमनुभवन्तस्तिष्ठन्ति । स्वकतेनाऽष्टादशपापस्थानरूपेण सततोदीर्णरूपेण दुःखेन पीड्यन्ते, नाऽक्षिनिमेषमपि कालं सुखमनुभवन्तीति गाथार्थः ॥ १६ ॥ किश्चाऽयत्
तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति।
न तत्थ सातं लभतीभिदुग्गे, अरहिताभितावे तहवी तर्विति ॥ १७ ॥ व्याख्या-तस्मिन्नरकावासे महायातनास्थाने नारकाणां लोलने प्रगाढो व्याप्तस्तस्मिन्नरके ते नारकाः शीतात्ती सन्तो गाढं अत्यर्थ सुतप्तं अग्नि व्रजन्ति । तत्राऽप्यतिदुर्गेऽग्निस्थाने दह्यमानाः सातं सुखं मनागपि न लभन्ते । अरहितोनिरन्तरोऽभितापो-महादाहोऽस्ति, तथाऽपि नरकपालास्तापयन्ति, तप्ततैलाऽग्निना दहन्तीति गाथार्थः ॥ १७ ॥
से सुबई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्था ।
उदिन्नकम्माण उदिन्नकम्मा, पुणो पुणो ते सरहं दुहिति ॥ १८॥ व्याख्या-तस्मिन्नरके तेषां नारकाणां नरकपालैः कदर्यमानानां भयानको महान् हाहारवप्रचुरः आक्रन्दरवः श्रूयते, महानगरवध इव समाकयेते, यथा महानगरवधे लोकानां महान्कोलाहलः श्रूयते, तथाऽत्रापि, कीदशो हाहारवः दुहोवणीयाणि 'दुःखेन' पीडया ' उपनीतानि' उच्चरितानि करुणाप्रधानानि, यथा हा तात! हा मात!
विविधायातना नारकाणाम् ।
॥७७॥
Jain Education intamational
For Private & Personal Use Only
www.jainelibrary.org