SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ एयगडा-IN सूत्रं दीपिका न्वितम् । ॥७५॥ जइ ते सुया वेयरणीभिदुग्गं, णिसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणी भिदुग्गं, उसुचोइया सत्तिसुहम्ममाणा ॥८॥ व्याख्या-सुधर्मस्वामी जम्बूस्वामिनं प्रति इदमाह-यदि ' ते ' त्वया श्रुता वैतरणी नाम क्षारोष्णरुधिराकारजलवाहिनी नदी ' अभिदुर्गा' दुःखोत्पादिका, तथा निशितो यथा पुरस्तीक्ष्णो भवति तादृशानि तीक्ष्णानि श्रोतांसि यस्याः सा तथा, ते च नारका उदन्यया पीयमानास्तप्तायां च भूम्यां तापसमाकुलाः सन्तो जलपानाय तापापनोदाय स्नार्थिनस्तां क्षारोष्णरुधिराकारजला वैतरणी तरन्ति । परमाऽधार्मिकैः शरपातः-इषुभिः प्रेर्यमाणाः शक्तिभिश्च हन्यमानास्तां नदी प्रविशन्तीति गाथार्थः ।। ८॥ किश्च-वराकाः नद्याः कष्टेन पीड्यमानाः अशरणा वराका अगाधां तां तरीतुम- | शक्ताः नावं वाञ्छन्ति, तत्र गाढतरं दुःखिताः सम्भवन्ति । तदेवाह कीलेहि विज्झति असाहकम्मा, नावं उवोंत सइविप्पहीणा । ___ अन्ने तु सूलाहि तिसूलियाहिं, दीहाहि विद्भूण अहे करिति ॥९॥ व्याख्या-ते असाधुकर्माणो नारकाः [ नावमुपयान्तः पूर्वारूढः परमाधार्मिकै ] नावालोहकीलकैस्तीक्ष्णैर्विध्यन्ते । ततश्च स्मृतिविहीना-भ्रष्टस्मृतिकाः अपगतकर्तव्यविवेका जायन्ते । अन्ये पुनः परमाऽधार्मिकाः नश्यन्तो नारकान् दृष्ट्वा त्रिशूलिकाभिः शूलाभिः दीर्घाभिर्विद्धा' अधो' भूमौ कुर्वन्ति, अधोमुखानिक्षिपन्तीति गाथार्थः ॥ ९ ॥ ५ नरकविभक्त्यध्ययने प्रथमो. द्देशकेविविधायातना नारकाणाम् । Jain Educati o nal For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy