SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ते नारगा ऊ भयभिन्नसन्ना, कंखंति के नाम दिसं वयामो ? ॥ ६ ॥ व्याख्या-महापापकारिणस्तिर्यग्मनुष्याः नरकेपुत्पद्यन्ते । ते चाऽन्तर्मुहर्तेन नि नाण्डजसन्निभानि शरीराणि निष्पा. दयन्ति । पूर्वमपर्याप्तकास्ततोऽन्तर्मुहुर्तेन पर्याप्तका जायन्ते । ततश्च तत्रोत्पन्नाः परमाधार्मिकानां भयानकान् शब्दान् | भृण्वन्ति । तद्यथा-हण, छिन्द, भिन्द-इत्यादिकान् कर्णाऽसुखप्रदान् शब्दान् श्रुत्वा भयोद्धान्तलोचना:-भयेन नष्टसंज्ञाः, का दिशं व्रजामः कं शरणं व्रजाम: ? कुत्र गतानामस्माकमेवम्भतस्यास्य महाघोरावदारुणस्य दुःखस्य त्राणं स्यादित्येवं भयोद्धान्ताः कांक्षन्तीति गाथार्थः ॥ ६॥ ते च भयोद्घान्ताः नश्यन्ति-इतस्ततः पलायन्ते, ततश्च यदनुभवन्ति तदर्शयितुमाह इंगालरासिं जलियं सजोति, ततोवमं भूमिमणुकमंता । जे डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥ ७॥ व्याख्या-'ज्वलितां' खादिराङ्गारज्वलितज्वालाकुलां सह 'ज्योतिषा' उद्योतेन वर्चत इति सज्योतिभूमिस्तदुपमा अङ्गारसन्निभा भूमिमाक्रमन्तस्ते नारकाः दन्दद्यमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दति । ते च नारका महानगरदाहाऽधिकेन तापेन दह्यमानाः 'अरहःस्वराः' प्रकटस्वराः महाक्रन्दस्वराः, 'तत्र' नरकावासे चिरस्थितिका:-उत्कृष्टतन. यस्त्रिंशत्सागरोपमानि जघन्यतो दशवर्षसहस्राणि यावत्तिष्ठन्तीति गाथार्थः ॥ ७ ॥ Jain Education in M For Privale & Personal Use Only Halww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy