________________
व्याख्या-एवं मया महानुभावः श्रीमहावीरः पृष्ट आशुप्रज्ञ, स चैवं पृष्टो भगवानिदमाह-यदेतद्भवता पृष्टस्तदहं [] प्रवेदयिष्यामि-कथयिष्यामि, त्वं दत्ताऽवधानः शृणु । तदेवाह-दुःखमिति नरकं, अथवा दुःखमेव अर्थों यस्मिन् दुखार्थों नरकः, स च दुग्गों' विषमो, दुरुत्तरत्वादादानीय-अत्यन्तदीनसत्त्वाश्रयं, तथा 'दुष्कृतं' असदनुष्ठानं पापं वा, तत्फलं वा असातावेदनीयोदयरूपं, तद्विद्यते यस्मिस्तद् दुष्कृतिकं 'पुरस्ता'दग्रतः प्रतिपादयिष्ये, इति गाथार्थः॥२॥ यथाप्रतिज्ञातमेवाह
जे केइ बाला इह जीवियट्ठी, पावाइं कम्माइं करिति रुद्दा।
ते घोररूवे तिमिसंधयारे, तिवाऽभितावे नरए पडंति ॥३॥ व्याख्या-ये केचन 'बालाः' अज्ञा-अविवेकिनो मूर्खाः, महाऽरम्मपरिग्रहपश्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुठाने प्रवृत्ताः, असंयमजीवितार्थिनः पापोपादानभूतानि कर्माणि 'रौद्राः' भयानका हिंसाऽनृतादीनि कर्माणि कुर्वन्ति । ते एवम्भृतास्तीव्रपापोदयवर्तिनो 'घोररूवे' अत्यन्तभयानके 'तिमिसंधयारे'त्ति बहलान्धकारे यत्रात्मापि नोपलभ्यते । केवलमवधिनाऽपि मन्दं मन्दमुलूका इवाह्नि पश्यन्ति । तस्मिन्नेवम्भूते नरके पतन्ति, कथम्भूते ? तीव्राऽभितापे, तीव्रोदुस्सहः खादिराङ्गारमहाराशितापादनन्तगुणोऽभिताप:-सन्तापो यस्मिन् स तीव्राभितापस्तस्मिन्-एवम्भूते बहुवेदने नरके पतन्तीति गाथार्थः ॥ ३॥ किञ्च
in Education internacional
For Privale & Personal use only
www.jainelibrary.org