________________
| सह संवासं परित्यजेत , स्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति गाथार्थः ॥ २० ॥
सुविसुद्धलेसे मेहावी, परकिरियं च वज्जए नाणी।मणसा वयसा काएणं, सवफाससहे अणगारे॥२१॥ ____ व्याख्या-सुविशुद्धलेश्यो 'मेधावी' पण्डितः परक्रियां संवाहनादिकां वर्जयेत् 'ज्ञानी' विदितवेद्यः । किमुक्तं भवति ? अन्यस्य किमपि विषयार्थिना [न] विधेयं नाऽप्याऽत्मना स्त्रिया पादधावनादिकं कारयेत् , मनसा वाचा कायेन करणकारणाऽनुमतिभेदेनाऽब्रह्म वर्जयेत् । तथा सर्वानपि परीषहान् अधिसहेत । एवं सर्वस्पर्शसहोऽनगार:-साधुर्भवतीति गाथार्थः ॥ २१ ।। क एवमाहेति दर्शयति
इच्चेवमाहु से वीरे, धुयरए धुयमोहे से भिक्खू ।
तम्हा अज्झत्थविसुद्धे सुविमुक्के, आमाक्खाए परिवएज्जासि ॥ २२ ॥ त्ति बेमि व्याख्या-इत्येतत् पूर्वोक्तं सर्व स्त्रीसंस्तवपरिहरणादिकं श्रीवीरो भगवान् 'आह' उक्तवान् । धुतरजा धुतमोहः, यत एवं तस्मात्स भिक्षुरध्यात्मविशुद्धः (सु)विमुक्तः स्त्रीसंसर्गेण, आमोक्षाय-अशेषकर्मक्षयं यावत् संयमोद्योगवान् भवेत् , इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २२ ॥ स्त्रीपरिज्ञाध्ययनं चतुर्थं परिसमाप्तम् ॥ ४॥ I इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदीपिकायां चतुर्थे
स्त्रीपरिज्ञाध्ययने द्वितीयोद्देशकः समाप्तस्तत्समाप्तौ च समाप्तमिदं चतुर्थमध्ययनम् ।
Jain Education in
For Private & Personal Use Only
Jww.jainelibrary.org