________________
वनिताभिर्याद तादृशेऽपि कर्मणि वाह्यन्त इति गाथार्थः ॥ १५ ॥ जाए फले समुप्पन्ने,गेलसु वाणं अहवा जहाहि । अह पुत्तपोसिणो एगे,भारवहा हवंति उद्दा वा ॥१६॥
व्याख्या-गृहवासतरोः फले पुढे जाते सति यादृक विडम्बनाः भवन्ति ताः दर्शयति-अमुं पुत्रं गृहाण, अहं तु गृहव्यापारव्यापृता, न मे ग्रहणावसरः, अथवा एनं 'जहाहि' परित्यज, नाहमस्य वार्तामपि पृच्छामि, एवं कुपिता सती ब्रूते, मया नवमासानुदरेण बूढस्त्वं पुनस्तोककालमुत्सङ्गेऽप्युद्वहन्नुद्विजसे, ततः स स्त्रीवशगो अनुग्रहं मन्यमानो मुदितः संस्तदादेशं दासवद्विदधाति, ततस्ते पुत्रपोषिणो जायन्ते, सर्वाऽदेशकारिणो 'भारवाहा' उष्ट्रा इव परवशा भवन्तीति नाथार्थः॥१६॥ राओविउट्रिया संता, दारगंसंठविति धाती वा। सुहिरामणावि ते संता, वत्थधुवा हवंति हंसा वा ॥१७
व्याख्या-रात्रावुत्थिताः सन्तो धात्रीवद्रुदन्तं पुत्रं संस्थापयन्ति । अनेकैरुल्लापनैरुल्लापयन्ति, स्त्रीवशाः पुरुषास्तचत्कुर्वन्ति येन सर्वत्रोपहसनीया भवन्ति । ' सुहीमनसोऽपि 'ये महालज्जावन्तस्तेऽपि हास्यजनकं जुगुप्सनीयं कर्म कुर्वन्ति । तदेव दर्शयति-'वत्थधुव 'त्ति वस्त्रधावका:-[ वस्त्र]शालका 'हंसा इव' रजका इव भवन्ति । किं बहुक्तेन ? उदकवहनादिकमपि कुर्वन्ति दासा इव पुरुषाः लजालवोऽपि, स्त्रियो हि जघन्येऽपि कर्मणि प्रेरयन्ति किं ? येनैवमभिधीयतेबाढं ताः प्रेरयन्ति, ते तु कुर्वन्ति दासा इवेति गाथार्थः ॥ १७ ॥ तदेवाहएवं बहुहिं कयं पुवं, भोगत्थाए जेऽभियावन्ना । दासे मिते व पेसे वा, पसुभूते व से ण वा केई ॥१८॥
Jain Education inte
For Private & Personal Use Only
A
w
.jainelibrary.org