________________
व्याख्या-'मुफणि' स्थालीपिठरादिशाकपाकार्थमानय, आमलकानि स्नानार्थ पित्तोपशमाय [वा] अभ्यवहारार्थमानय, उदकाहरण घटादिततेलाद्याहरणं सर्व गृहोपस्कराद्यानय, तिलकः क्रियते यया सा तिलककरणी, दन्तमयी सुवर्णमयी वा शलाका, यया गोरोचनादियुक्तया तिलकः क्रियते । अञ्जनशलाका-रजतमयीशलाका अक्ष्णो रञ्जनार्थमानय, तथा उष्णे तापनिवारणाय 'विधूनकं' व्यञ्जनकमानयेति माथार्थः॥ १०॥ संडासगंच फणिहंच,सीहलिपासगंच आणाहि।आदंसगंच पयच्छाहि.दंतपक्खालणं पवेसाहि ॥११॥
व्याख्या-'सण्डाशिक नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनाथ ककृतकं, तथा 'सीहलिपासगं'ति वेणीसंयमनार्थमामयं कङ्कणं, तमानय, 'आदर्श' दर्पणं प्रयच्छ 'दंतपक्खालणं' दन्तपावनं मदन्तिके प्रवेशयेति गाथार्थः ॥ ११ ॥ पूयफलं तंबोलं, सूयं सुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ _व्याख्या-पूगीफलं, ताम्बूलं, सूची तथा सूत्रं 'जानाहि ' ददस्व । ' मोयमेहाए 'त्ति ' मोचः' प्रश्रवणं-कायिका, रात्रौप्रश्रवणार्थ वारकादिभाजनं (पाळो इति लोकविश्रुतं ) आनय, बहिर्गन्तुमसमर्था रात्रौ मयादतो मम यथा बहिगमनं न भवति तथा कुरु । अन्यस्मिन्नप्यधमकाये नियोजयन्ति । सूप्पं उदखलं तथा सर्जिकादेः क्षारस्य गालनकमित्येवमाद्युपकरणं सर्वमप्यानयेति गाथार्थः॥ १२ ॥ चंदालगंच करगं च, वच्चघरं च आउसो! खणाहि। सरवायं च जायाए, गोरहगं च सामणेराए ॥१३॥
Jain Educationbhanal
For Private & Personal Use Only
www.jainelibrary.org