________________
अथवा वाकफलानि धर्मकथादिना लब्धानि वस्त्रादिलामरूपाणि, तान्याहर-आनयेति गाथार्थः ॥४॥ अपि चदारूणि सागपागाए, पजोओ वा भविस्सती राओ। पाताणि य मेरयाहि, एहि ता मे पिट्रओमहे॥५
व्याख्या-'दारूणि' इन्धनान्यानय येन शाकपाकः क्रियते, अथवेन्धनान्यानय येनाग्निः प्रज्वाल्यते रात्रावुद्: द्योतः स्यात् । तथा मदीयानि पात्राणि रजय लेपादिना, येनाहारं सुखेन आनये+, तथेहागच्छ, उपविश, मदीयमङ्गं दुष्यति तेन संवाहय पृष्ठि, इत्यादिष्वधर्मेषु कार्येषु नियोजयन्तीति गाथार्थः ॥ ५॥ वत्थाणि यमे पडिलेहेहि, अन्नं पाणमाहराहि त्ति। गंधं चरओहरणं च, कासवगं मे समणुजाणाहि।६।
व्याख्या-वस्त्राणि मम जीर्णानि जातानि, अन्यानि नवीनानि 'प्रतिलेखय ' गवेषय, यदि वा मलिनानि रजकस्य समर्पय । तथा अन्नपानकादि ' आहराहि' आनय, गन्धं कर्पूराद्यानय, रजोहरणमानय, लोचं कारयितुमहमशक्ता, ततो मस्तकमुण्डनाय नापितमानयेति गाथार्थः ॥ ६॥ अदु अंजणि अलंकारं, कुक्कयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥
व्याख्या-अथवा प्रकारान्तरेण दर्शयति-पूर्व यतिवेषोपकरणान्यधिकृत्य दर्शितं, अथ गृहस्थोपकरणमधिकृत्य कथ्यते । । 'अञ्जनिकां' कजलभाजनमानय, तथाऽलङ्कारं वा कटककुण्डलकेयूराद्यानय, 'कुक्कयं' खुंखुणकंx 'मे' मम प्रयच्छ, येनाऽहं
+ " अथवा ( मम ) पादौ रञ्जयालक्तकादिना " इति हर्ष। - आभरणविशेषम् ।
Jain Education in
For Private & Personal Use Only
Howw.jainelibrary.org