________________
प्रयगडाङ्ग
पत्र
दीपिकान्वितम् ।
॥६९॥
कुपिता सती भाषते तदा स विषयवाहितः सन् तस्याः कुपितायाः प्रसादनार्थ पादयोनिपतति, ततश्च सा एवं जानाति यदसौ वराकः कृष्णश्वेतप्रतिपत्ता मदशवर्ती, यदहं वच्मि तत्सर्व प्रतिपद्यते । ततश्च सा(ता.) आत्मवशगं ज्ञात्वा, वामपादमु. दृत्य मुनि 'प्रघ्नन्ति ' ताडयन्ति । इत्यादि विडम्बनां दर्शयन्ति इति गाथार्थः ॥ २ ॥ अन्यच्च
जइ केसि[या]ता णं मए भिक्खु !, णो विहरे सह णमित्थीए ।
केसाणि वि हु लुचिस्सं, नन्नत्थ मए चरिजासि ॥३॥ व्याख्या-यदि काचित् स्त्री एवं मायावचनं भाषते, भो श्रमण ! यदि त्वं मया केशवत्या सह विहरन् 'शङ्कसे लजसे तमुहं केशानपनयिष्यामि । यचं कथयिष्यसि तदहं सर्व करिष्यामि परमेतत् प्रार्थये-मया विना न क्वापि त्वया विहर्त्तव्यं, अहमपि त्वदायत्तास्मि, इत्यादिवचनविश्वासमुत्पाद्य कपटनाटकनायिकास्तास्तं साधुमात्मवशगं ज्ञात्वा कर्मकरव्यापारैरपवादः 'प्रेरयन्ति' नियोजयन्ति ॥ ३ ॥ तानेव दर्शयितुमाहअहणं से होई उवलद्धो, तो पेसिति तहाभूतेहिं । अलाउच्छेदं पेहाहि, वग्गुफलाइं आहराहि त्ति॥४॥
व्याख्या-अथ स भिक्षुस्ताभिरुपलब्धः यदसावस्माकं कर्मकरप्रायो जातः, ततश्च ताः तथाभूतैः कर्मकरव्यापारीः प्रेषयन्ति, एतावता दासवद्भामयन्ति । कर्मकरव्यापारान् दर्शयितुमाह 'लाउ'त्ति अलावुछेदनयोग्यं शस्त्रं 'प्रेक्षस्व' निरूपयकतोऽप्यानय, येन अलाबुपात्रकमुखं समारयामः, अथवा ' वल्गूनि' फलानि-नालिकेरादीनि 'आहराहि 'त्ति आनय,
४ स्त्रीपरिज्ञाऽध्ययने द्वितीयो.
देशके विडम्बनापात्रत्वं वनितावश्चगस्य ।
||६९॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org