________________
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
पापो मायावी परेण 'आदिष्ट' शिक्षितः सन् 'बालो' मूढः आत्मानं श्लाघमानोऽकार्यपलपति, वदति च यथा-नाहमीदृशमकार्य करिष्ये, इत्येवं धार्थ्यात्प्रकत्थते । तथा पुनरपि केनापि हितेन प्रोक्तं-भो महाभाग ! 'वेयाणुवीइ' ति वेद:पुंवेदोदयस्तस्यानुवीचिरानुकूल्यं-मैथुनाभिलाषं मा कार्षीरिति, एवं केनापि शिक्षिते 'ग्लायति' ग्लानिमुपयाति, ४ शृणोत्यपि |न, मर्मविद्धो वा सखेदमिव भाषते इति गाथार्थः ॥ १९ ॥
ऊसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेदना । पन्नासमन्निया वेगे, नारीणं वसं उवकसति ॥२०॥ - व्याख्या-ये पुरुषाः स्त्रीपोषकानुष्ठानविशेषेषु उषिताः भुक्तभोगिनोऽपि 'स्त्रीवेदखेदज्ञाः' स्त्रीवेदो मायाप्रधानः, स्त्रियो हि मायावत्य अप्रधानभूताः, एवं जानन्तोऽपि 'प्रज्ञासमन्विता' बुद्धिवन्तोऽपि [एके ] पुरुषाः मोहोदयात् स्त्रीणां वशे वर्तन्ते । किमुक्तं भवति ? एके पुरुषाः बहुशो भुक्तभोगा अपि 'स्त्रियो हि संसारहेतवः कारणं परमं' एवं जानन्तोऽपि मोहोदयात्पुनरपि स्त्रीणां वशे पतन्ति, ताः यत्कथयन्ति तत् किङ्करा इव कुर्वन्ति इति गाथार्थः ॥ २० ॥ ___अथेहलोकेऽपि स्त्रीसम्बन्धविपाकं दर्शयितुमाहअवि हत्थपायछेदाय, अदुवा वद्धमंसउक्कत्ते। अवि तेयसाऽभितावणाई, तच्छियखारसिंचणाइं च ॥२१ व्याख्या-कुशीलिनः पुरुषाः हस्तपादच्छेदादिकं प्राप्नुवन्ति, अथवा चर्ममांसोत्कर्त्तनमपि तैजसा-ऽग्निनाभितापनानि* श्रुतमश्रुतं विधत्त इति भावः, फः।
४ स्त्रीपरिज्ञाऽध्ययने प्रथमो.
द्देशके दारुणत्व. मिहलोकेऽपि स्त्रीपरिचयस्य।
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org