SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तेषां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्ति । 'ध्रुवमाग्ग' मोक्षः संयमो वा अस्मदीयादेव मार्गाद् इति कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतमिति गाथार्थः ॥ १७ ॥ सुद्धं वइ परिसाए, अह रहस्संमि दुक्कडं करेति । जाणंति य णं तहा विया, मायले महासढेऽयं ति ॥१८ व्याख्या-सः कुशीलः पर्षन्मध्ये आत्मानं शुद्धं 'रौति' भाषेते, अथ रहस्येकान्ते 'दुष्कृतं' अनाचारं करोति । तस्य तदनाचारं गोपायतोऽपि जानन्ति, [तथाविदाः] 'कोविदाः' इङ्गिताकारकुशला निपुणाः, स प्रच्छन्ना कार्यकारी त्वेवं जानातिन मां कोsपि वेत्ति, रागान्ध एवं मन्यते । एतदुक्तं भवति - यद्यप्यपरः कश्चित्तदकर्त्तव्यं न वेति, प्रच्छन्नकृतत्वात् तथापि सर्वज्ञा विदन्ति । असौ मायावी महाशठश्चायं इति सर्वज्ञास्तत्कृतम कर्त्तव्यं च प्रच्छन्नकृतमपि जानन्तीति । अथवा आत्मकृतमनाचारमात्म जानाति यन्मयै तदकर्त्तव्यं कृतमिति । अथ च ज्ञानिनो वा सर्व विदन्ति, [ तथा चोक्तं ] " नं य लोणं लोणिज्जई, ण य तुप्पिज्जइ घयं व तिलं वा । किह सको ! वंचेउं, अत्ता अणुहूयकलाणो ॥ १ ॥ " इति वचनात् । प्रच्छन्न कृतमकार्य आत्मैव जानाति सर्वज्ञो वेति गाथार्थः ।। १८ ।। किश्वान्यत्सयं दुक्कडं च न वदति, आइट्ठो वि पकत्थती बाले । वेयाणुवीइ मा कासी, चोइज्जतो गिलाइ से भुज्जो ॥ १९ व्याख्या - स प्रच्छन्नाकार्यकारी अपरेणाऽऽचार्यादिना वा पृष्टो न वदति यथैतदकृत्यं मया कृतमिति । स च प्रच्छन्नकृत१ न च लवणं लवणीयते न च प्रक्ष्यते घृतं वा तैलं वा । कथं शक्यो ? वञ्चयितुं आत्मानुभूताकल्याणः ॥ १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy