________________
साकमेकान्ते न स्थेयं । किंबहुना ? या 'दास्यः' कर्मकर्यस्ताभिः सह संसर्ग परिहरेत् । महतीभिर्लध्वीभिर्वा कुमारीभिः सह सम्पर्क सोऽनगारो न कुर्यात् “ मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १॥" "जह विन से वयभंगो, तहवि कुसंगाओ होइ अववाओ। दोसनिहालणनिउणो, सब्बो पायं जणो जेण ॥२॥" तेन तत्संसर्गः सर्वथा त्याज्य एवेति गाथार्थः ।। १३ ।। अदुणाइणंच सुहीणं वा, अप्पियं दहु एगता होंति।गिद्धा सत्ता कामेहि,रक्खणपोसणेमणुस्सोसि?॥१४|
व्याख्या-एकान्ते योषिता सार्द्धमनगारमेकदा दृष्ट्वा ज्ञातीनां सुहृदां च मनसि अप्रियं भवति, एवम्भूतो मलिनांशुको भिक्षाभोज्यप्यनया सह निहींकस्तिष्ठति "मुण्डं शिरोवदनमेतदनिष्टगन्धं, भिक्षाटनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाँछा ॥१॥" ततश्च तं भिक्षु योषिद्वदनावलोकनासक्तं दृष्ट्वा एवं भाषन्ते-भो भिक्षो! त्वमस्याः स्त्रियो रक्षणपोषणे मनुष्योऽसि-पतिरसि ? यवमनया सार्द्ध विमुक्ताऽन्यव्यापारस्तिष्ठसि एषापि त्वया सार्द्धमेकाकिन्यहर्निशं परित्यक्तसर्वव्यापारा तिष्ठति । एवं लोकनिन्दा स्यादिति गाथार्थः ॥१४॥ किश्चान्यत्समणंपि दट्ठदासीणं, तत्थवि ताव एगे कुप्पति।अदुवा भोयणेहिं णत्ोहिं, इत्थीदोससंकिणो होंति॥१५/ व्याख्या-श्रमणं उदासीनमपि-रागद्वेषविगमान्मध्यस्थमपि [रहसि ] खिया सहालापं कुर्वाणं दृष्ट्वा एके तावत् १ यद्यपि न तस्य व्रतभङ्गस्तथापि कुसगाद्भवत्यपवादः । दोषनिभालननिपुणः सर्वः प्रायो जनो यस्मात् ॥ १ ॥
Jain Educalan Interation
For Privale & Personal Use Only
www.jainelibrary.org