SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte सीहं जहा व कुणिमेणं, निब्भय मेगचरं ति पासेणं । एवं इत्थियाउ बंधंति, संवुडमेगतियं अणगारं ||८|| व्याख्या—यथा बन्धनविधिज्ञाः सिंहं मांसादिना प्रलोभ्य निर्भयत्वादेकचरं पाशेन - गलयन्त्रादिना बध्नन्ति । बध्वा च बहुप्रकारं कदर्थयन्ति । एवं स्त्रियोsपि ' एगतियं एकं कञ्चन तथाविधमनगारं मञ्जुलभाषणादिभिः संवृतमपि न्ति, असंवृतस्य पुनः किं वाच्यमिति गाथार्थः ॥ ८ ॥ अह तत्थ पुणो नमयंति, रहकारो व णेमि आणुपुवए । बद्धे मिए व पासेणं, फंदतेणं न मुच्चए ता व्याख्या-यथा 'रथकारो' सूत्रधार: नेमिकाष्ठं चक्रवाह्यं अमिरूपं आनुपूर्व्या नामयति एवं ताः स्त्रियोऽपि साधुं स्वाभिप्रेतवस्तुनि नमयन्ति-स्वकार्ये प्रवर्त्तयन्ति, स च साधुर्मृगवत्पाशबद्धो मोक्षार्थं प्रयत्नं कुर्वन्नपि न मुच्यते इति गाथार्थः ||९|| अह सेऽणुतप्पती पछा, भोच्चा पायसं व विसमिस्सं । एवं विवेगमायाय, संवासो न कप्पए दविए ॥ व्याख्या - स साधुः स्त्रीपाशे पतितः सन् पश्चात्तापं करोति, यो गृहवासे पतितस्तस्यैतत्स्तोकतरं, स्त्रीपाशे पतितानां कश्चित् घनतरं विलोक्यते एवं अनुतप्यते, यथा कश्चित् विषमिश्रितं पायसं भुक्त्वा पश्चादनुतप्यते किमिति मया मन्दबुद्धिना विषमिश्रितमिदं बुभुजे १, तथा साधुरपि स्ववशं नीतः कर्मकरवदाज्ञां ग्राहितः ऐहिकामुष्मिक भ्रष्टः अहर्निशं तदावर्जनव्याकुलितमतिः परितप्यते । अथ तेन विवेकमादाय स्त्रीभिः सार्द्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति मत्वा परिहार्यः । ' दविए ' मुक्तिगमनयोग्यः साधुरिति गाथार्थः ॥ १० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy