________________
यगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ ६२ ॥
अथ स्त्री परिज्ञाख्यं चतुर्थमारभ्यते ॥
प्राक्तने अध्ययने अनुकूलाः प्रतिकूला उपसर्गाः प्रतिपादितास्तेष्वपि स्त्रीपरीषहो दुर्जयः, अतस्तज्जयार्थमिदं स्त्रीपरपहाध्ययनं प्रारभ्यते । तत्रेयमादिगाथा ॥
जे मायरं च पियरं च, विप्पजहाय पुव्व संजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसी ॥ १ ॥ व्याख्या - यो भिक्षुर्मातापित्रादीनां पूर्वसंयोगं श्वशुरादीनां च पश्चात् संयोगं त्यक्त्वा, ज्ञानदर्शनचारित्र सहितः संयमं पालयिष्ये, एवं कृतप्रतिज्ञः चरिष्यामि कथम्भूतो भिक्षुः - ' आरतमैथुनो' विरतमैथुन : ' विवत्तेसी ' स्त्रीपशुपण्डकरहितोपाश्रयं गवेषयन् विचरतीति गाथार्थः ॥ १ ॥
एवंविधस्यापि साधोरविवेकिखीजनाद्यद्भवति तदाह ।
FVI
Jain Education International
सुहुमेणं तं परक्कम्म, छन्नपण इत्थिओ मंदा ।
उवायं पिताउ जाणंसु, जहा लिस्संति भिक्खुणो एगे ॥ २ ॥
व्याख्या -' तं ' महापुरुषं साधुं ' सूक्ष्मेण ' अपरकार्यमिषेण ' छन्नपदेन ' छद्मना - कपटजालेन ' पराक्रम्य ' तत्सममागत्य, स्त्रियो नानाविधकपटशतपूरिताः साधुसमीपमागत्य संयमाद्ध्वंसयन्ति । ' मन्दा' मायाविन्यः उपायमपि जानन्ति येनोपायेन साधुः संयमाद्भ्रश्यति । एवंविधाः स्त्रियः हावभावविब्बोकवत्य उपसाधुमागत्य उपविशन्ति, तथा
For Private & Personal Use Only
४ स्त्रीपरिज्ञा
sar
प्रथमो
देश के
मात्रादिभिरप्येका
न्तवास
वर्जनम् ।
॥ ६२ ॥
www.jainelibrary.org