________________
Jain Education Inte
निर्माल्य मुहूर्त्त सुखितो भवति, न च कोऽपि दोषः समुत्पद्यते, मुहूर्तमात्रं सुखं विन्दति तथा स्त्रीविज्ञापनायां - स्त्रीसेवायां गण्डपरिपीडन स्कुतो दोषः १ अपितु न कोऽपि स्यादपि यदि काऽपि पीडोत्पद्यते, न चासाविहास्तीति गाथार्थः ॥ १० ॥ जहा मंधाद (णे) ए (?) नाम, थिमितं भुञ्जती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिया ? ॥११॥ व्याख्या - नाम इति सम्भावनायां यथा [ मन्धादन ] ' मध्वादो' मेषः स्तिमितं- अनालोडयन्नुदकं पिवति न च उदकं पीडयति आत्मानं च पुनः प्रीणयति, एवं स्त्री सम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्रीणनमतः स्त्रीसेवायां कुतो दोषः १ अपि तु न कोsपीति गाथार्थः ॥ ११ ॥ दृष्टान्तान्तरमाह
जहा विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिया ? ॥ १२॥
व्याख्या -यथा 'पिङ्गाः ' कपिञ्जला ' विहङ्गमाः ' पक्षिणी आकाशस्था स्तिमितमुदकमापिवति, एवमत्रापि गर्भप्रदानपूर्विकया पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि न दोष इति गाथार्थः ॥ १२ ॥
एवमेगे उपासत्था, मिच्छद्दिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुण ॥ १३ ॥
व्याख्या - एवं गण्डपीडनादिवलेन निर्दोषं मैथुनमिति मन्यमानाः एके पार्श्व स्थादयो मिथ्यादृष्टयोऽनार्याः कामेषु 'अभ्युपपन्ना: ' मूर्च्छिताः विषयैषिणो मूच्छिताः भवन्ति, अत्रार्थे दृष्टान्तमाह-' पूयण 'त्ति + गडरिका आत्मीयेऽपत्ये + " पूतना' - डाकिनी 'तरुणके ' स्तनन्धयेऽभ्युपपन्ना " इति बृहद्वृत्तौ ।
For Private & Personal Use Only
www.jainelibrary.org