________________
सूयगडाज
दीपिका'न्वितम् ।
कार्तिके (हि शुमे) मासे, (मुदा)चतुर्मासकपर्वणि ॥ ३॥" विभिर्विशेषकम् । परिज्ञायतेऽनेन पद्यत्रयेण, यदुत-खरतरगच्छाचार्यश्रीमजिनदेवमूरीणामादेशतः श्रीमत्साधुरङ्गोपाध्यायप्रवरैर्विक्रमानवनवत्यधिकायां पञ्चदशशताब्द्यां कार्तिकचातुर्मासिकाहि सङ्कलितेयं दीपिका मरुधरीयवरल्याम इति ।
यद्यपि श्रुतस्कन्धद्विकस्य संलग्नमेव प्रकाशनेच्छाऽभूत्प्राक्, परं बहुकालोपादिकारणवशादयं प्रथम एव श्रुतस्कन्धः प्रकाश्यतेऽधुना, द्वितीयोऽपि स्वल्पेनैव समयेन प्रकाशमेष्यतीति धर्तव्या धीरिमा तावत्कालं धीधनैः पाठकैः ।
कृतेऽप्यायासे प्रूफसंशोधने छद्मस्थमुलभा अनाभोगादिजन्या याः काश्चन स्खलनास्त्रुटयो वा दृष्टिपथमवतरेयुस्ताः सम्माजनीयाः सहजकृपाहृदयैः सज्जनैरित्यभ्यर्थयते
षोडशाधिके द्विसहस्रे वैक्रमे । पादलिप्तपुरे-कल्याणभबने ।
स्वर्गीयानुयोगाचार्य पंन्यासप्रवर श्रीमत्केशरमुनिजिद्गणिवर
___ चरणाजमधुकरो बुद्धिसागरो गणिः ।
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org