SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ किञ्चित्प्रास्ताविकम्। विज्ञपाठकानां करकमले समय॑ते सानन्दमेषः सूत्रकृताकदीपिकाया आद्यश्रुतस्कन्धात्मकः प्रथमो विभागः । सङ्कलयितारो | ह्यस्या दीपिकायाः सुगृहीतनामधेया विद्वज्जनवरिष्ठाः श्रीमत्साधुरङ्गोपाध्यायप्रवराः। एते पाठकप्रवराः कदा कतमं विषयं ज्ञाति कुलं वा ग्राम नगरं पावया मासुः स्वजनुषा ? इत्यारेकायाः समाधाने नावाप्ता कापि साधनसामयद्ययावन्मया अतो न निर्णतुं शक्यते, यदि च सम्प्राप्स्यतेऽतः परं किश्चित्साधन तर्हि निवेदयिष्यते द्वितीये विभागे । या याः प्रतिकृतयोऽस्या संशोधने उपयुक्ता मया तासां परिचयोऽपि तत्रैव दास्यते । सङ्कलनसमयादिकस्त्वस्याः स्वयं दीपिकाकारमहानुभावरेवोल्लिखितमस्य श्रुतस्कधस्य प्रान्ते, यथा " श्रीजिनदेवमूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहवृत्ति, कृत्वा नामान्तरं पुनः॥१॥" "श्रीसाधुरङ्गोपाध्यायै-द्वितीयाङ्गस्य दीपिका । संक्षेपरूचिजीवानां, हिताय सुखबोधिनी ॥२॥" “लिलिखे वरलूग्रामे, निधिनन्दारक (१५९९) वत्सरे +(सौम्ये)। __ + अनुष्टुभां लक्षणानुसारेणात्रैकस्य 'क' वर्णस्यैव ध्रुटिरभूत्परं मुद्रणसमये नैतत्स्फुरितमत आर्यायाः पूर्युद्देशेन लिखिता एतचिह्नान्तर्गताः शब्दाः, VI किन्तु तृतीयचरणान्ते एकस्यैव 'क' वर्णस्य वर्धनाजायते शोकपूर्तिस्तद्यथा ___ “लिलिखे वरलूग्रामे, निधिनन्दशरैक( के१५९९ ) । वत्सरे कार्तिके मासे, चतुर्मासकपर्वणि ॥ ३॥” एतदेव समीचीनमाभाति । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy