________________
पर्यटन्तीति गाथार्थः ।। ५ ।। अथ मतान्तरमाह
इहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहियं ॥ ६ ॥
व्याख्या -इह एके शाक्यादयः स्वयूथ्या वा लोचादिना पीडिता एवं भाषन्ते, किं तदित्याह -' सातं सुखं सातेनैव स्यात्, एतावता को भाव: : सुखेनैव सुखावाप्तिर्जायते, यत उक्तं-" सर्वाणि सत्वानि सुखे रतानि सर्वाणि -दुःखाच समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ॥ १ ॥ " यतः कारणानुरूपं कार्यमुत्पद्यते, यथा शालिवीजाच्छालयङ्करो न यवाङ्करः, तथा सुखात्सुखं दुःखाद्दुःखं न च लोचादिकष्टान्मुक्तिरिति, एवं ये स्वयूथ्याः शाक्यादयो वा भाषन्ते ते आर्यमार्ग सर्वज्ञभाषितं परिहरन्ति, तथा परमं च समाधिं ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति ते अज्ञा - मूढमतयो मवोदधौ पर्यटन्तीति गाथार्थः ॥ ६ ॥
Jain Education International
मा एयमवमन्नंता, अप्पेणं लुंपहा बहुं । एतस्स अमोक्खाए, अओहारिब झूरह ॥ ७ ॥
व्याख्या – एनमार्यमार्ग सर्वज्ञभाषितं ' सुखं सुखेनैव जायत ' इति भाषमाणा मोहमोहिताः भो तीर्थिकाः ! यूयं 'अबमन्यमानाः ' सर्वज्ञभाषितं मार्ग परिहरन्तः अल्पेन सांसारिक सुखेन बहुं परमार्थसुखं मोक्षाख्यं मा लुम्पथ - मा विध्वंसथ, एवंविधस्यासत्पक्षस्य ' अमोक्षे ' अपरित्यागे अयोवाहकपुरुषवज्रयिष्यथ, यथा लोहवाहकः अपान्तराले रूप्य सुवर्णरत्नादिलाभेsपि दूरमानीतमिति कृत्वा लोहं नोज्झितवान् पश्चात्स्वस्थानं प्राप्तं अस्पलामे आत्मानं पश्चात्तापेन दह्यमानो निनन्द
For Private & Personal Use Only
www.jainelibrary.org