________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ५८ ॥
आसिले देविले चेव, दीवायणमहारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥ ३ ॥ व्याख्या - एते सर्वेऽपि ऋषयः उदकेन बीजकाय - हरितकायपरिभोगादेव सिद्धिं प्राप्ता इति गाथार्थः ॥ ३ ॥ एते महापुरिसा, आहिता इह संमया । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुयं ॥ ४ ॥ व्याख्या - एते पूर्वोक्ता महापुरुषाः बीज सचित्तोदकपरिभोगात्सिद्धिं प्राप्ताः, एवं कुतीर्थिका अथवा सुखशीलाः स्वयूथ्याः पार्श्वस्थादयो भाषन्ते - यथाऽस्माभिर्भारित पुराणादौ श्रुतं तथा वयमप्येवमेव सिद्धिं साधयिष्यामः इति गाथार्थः ॥ ४ ॥ तत्थ. मंदा विसयिंति, वाहच्छिन्ना व गद्दभा । पिट्ठतो परिसप्पति, पिट्ठसप्पी व संभमे ॥ ५ ॥
व्याख्या - ईदृशं श्रुत्युपदेशं श्रुत्वा मन्दा 'विषीदन्ति संयमे मग्नचित्ता जायन्ते, न पुनरेवं विदन्ति - पद्वीजोदकस चित्तपरिभोगात् सिद्धिनं जायते, सिद्धिस्तु जातिस्मरणादिना सम्यग्ज्ञानदर्शनचारित्रावास्या च जायते, मरुदेवास्वामिनी - भरत - पृथ्वीचन्द्रगुणचन्द्र-वल्कलची रिप्रभृतीनामित्र, नहि शीतोदक- बीजाद्युपभोगेन जीवोपमर्द प्रायेणानुष्ठानेन कर्मक्षयो जायते । विषीदने दृष्टान्तमाह-' वाहो ' भारस्तेन ' छिन्ना ' स्त्रुटिता रासभा इव, यथा रासभा अर्द्धपथ एव भारमुत्सृज्य निपतन्ति, तथा तेऽपि संयमभारं विहाय शीतलविहारिणो भवन्ति । पुनर्दृष्टान्तान्तरमाह-यथा भग्नगतयो मनुष्या अग्न्यादिसम्भ्रमे व्याकुलाः नश्यतां मानवानां पृष्ठपरिसर्पिणो भवन्ति, नाग्रगामिनः स्युः, अपितु अन्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि संयमे शिथिलाः सन्तो मोक्षं प्रति प्रवृत्ता अपि न मोक्षङ्गतयो भवन्ति, अनन्तमपि कालं संसारे
Jain Education International
For Private & Personal Use Only
३ उपसग
परिज्ञा
ऽध्ययने
चतुर्थी
देश के
स्खलितस्य
प्रज्ञापना ।
1146 11
www.jainelibrary.org