________________
S
क्रियते, अनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्र
आहंसु महापुरिसा, पुद्धिं तत्ततवोधणा। उदएण सिद्धिमावन्ना, तत्थ मंदे विसीयती ॥१॥ | व्याख्या-अविदितपरमार्थाः केचन एवमाहु-रुक्तवन्तः, 'पूर्व' पूर्वस्मिन् काले महापुरुषास्तारागणर्षिप्रभृतयस्त[प्तत]पोधना:-पञ्चाग्न्यादितपस्साधका अपि 'शीतोदकेन' सचित्तोदकपरिभोग-कन्दमूलफलायुपभोगेन च 'सिद्धिमापन्नाः' सिद्धिङ्गताः, इत्याकर्ण्य ' मन्दो'ऽज्ञः अस्नानादिपरीषहतर्जितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, अप्रासुकोदकमेवाश्रयतें, एवं मूर्खाः न विदन्ति यत्कर्मणां क्षयेन भरतादीनां मोक्षावाप्तिर्जाता, न तु शीतोदकपरिभोगादिति | | गाथार्थः॥१॥ किश्च
अभुंजिया नमी विदेही, रामगुत्ते य भुजिया । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥२॥ ___ व्याख्या-केचन कुतीथिकाः साधुविप्रतारणार्थमेवं भाषन्ते-विदेहदेशीयो नमीराजा अशनादिकमभुक्त्वा सिद्धि गतः, तथा रामगुप्तो राजर्षि 'भुक्त्वा' आहारादिपरिभोगं कृत्वा सिद्धिं गतः। तथा बाहुकर्षिः +नारायणपिश्च, एतौ
द्वावपि शीतलोदकपरिभोगादेव सिद्धाविति गाथार्थः ॥ २॥ NI + मूलेनार्थसानत्यं त्वेवमेवास्ति, परं शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगारिसद्ध
इति बृहवृत्तौ ।
Lel
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org