SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ ' अत्र धर्मविधौ युक्तयो न विस्तार्यन्ते, युक्तिभिः किं प्रयोजनं १ इति गाथार्थः ॥ १७ ॥ अपि च रागद्दोसाभिभूतप्पा, मिच्छत्त्रेण अभिदुता । आउसे सरणं जंति, टंकणा इव पव्वयं ॥ १८ ॥ व्याख्या - तेऽन्यतीर्थिकाः रागद्वेषाभिभूता मिध्यात्वेन अभिद्रुताः - सद्युक्तिभिर्वादं कर्त्तुं असमर्थाः आक्रोशवचनानि वते तथा दण्डयष्ट्यादिभिश्च नन्ति, यदा युक्तिभिरुत्तरं दातुमसमर्थास्तदा आक्रोशान् दण्डयष्टयादिभिश्व हननव्यापारं शरणतया श्रयन्ते, यष्टिमुष्टिप्रहारं कुर्वन्तीत्यर्थः । यथा 'टङ्कणा' म्लेच्छाः शस्त्रादिभिर्युद्धं कर्त्तुमसमर्थास्तदा पर्वतं शरणं कुर्वन्ति तथा तेऽपि दण्डयष्टयादिना हननव्यापारं शरणतया मन्यन्त इति गाथार्थः ॥ १८ ॥ बहुगुणप्पगप्पाई, कुज्जा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेज्जा, तेण तं तं समायरे ॥ १९ ॥ Jain Education International व्याख्या – बहवो गुणाः स्वपक्षसिद्धि - परदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते- प्रादुर्भवन्ति आत्मनि येषु अनुष्ठानेषु तानि बहुगुण प्रकल्पान्याश्रयन्ते साधवः । प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि [ वा ] भाषन्ते तेषां बोधार्थ, न पुनर्वाकलहादिकं कुर्वते आत्मसमाधये, यथा स्वपरयोश्चित्तसमाधिः स्यात्तथा वक्तव्यं, न परदुःखोत्पादकं वचो भाषणीयं साधुभिः, युक्त्यैव बोधयन्तीति भावः, न च ते आक्रोशपरानप्यात्मनाऽऽक्रोष्टव्याः, एवं च चिन्तयेतद्यथा - " आकोस हणणमारण धम्म भंसाण बालसुलभाणं । लाभं मन्नह धीरो, जहुत्तराणं अभावम्मि For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy