________________
यगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ५६ ॥
ssनीतं तु कल्पते, साधोरभावे गृहिणाध्यानीय देयं ग्लानाय, कारणे न दोषः, साधुसद्भावे दोष एवेति गाथार्थः ॥ १५ ॥ धम्मपन्नवणा एसा, सारंभाण विसोहिया । णउ एयाहिं दिट्ठीहिं, पुवमासि पगप्पियं ॥ १६ ॥
व्याख्या— या एषा धर्मदेशना भवदीया यतीनां दानादिना गृहिणा उपकर्त्तव्यं इत्येषा देशना ' सारम्भाणां ' गृहस्थानां विशोधिका गृहिणा दानं देयं “ गृही दानेन शुद्ध्यति " इति वचनात् । परन्तु यतिना दानं न देयं यतेर्दानाधिकारो नास्ति, यतयः स्वकीयानुष्ठानेन शुद्धयन्ति इत्येषा [या] भवदीया धर्मदेशना सा न भवदीय तीर्थकरेण प्ररूपिता, न भवतीर्थकरेण प्ररूपितमिदं, यद्गृहस्थेनैव ग्लानावस्थायां यतेरुपकर्त्तव्यं, न तु यतिभिः परस्परमित्येवं सर्वज्ञे: पूर्व - मादौ प्ररूपितमासीदित्येषा भवद्देशना मिथ्या, यतो न सर्वज्ञा ईदृशमर्थं प्ररूपयन्ति, यथा भवन्त ईदृग्धर्मदेशनया प्ररूपयन्ति न तथा सर्वज्ञैः प्ररूपितमिति गाथार्थः ॥ १६ ॥
सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जोवि पगब्भिया ॥ १७ ॥
व्याख्या - ते सर्वेऽपि गोशालकमतीया बोटिकाश्च सर्वाभिरप्यनुयुक्तिभिः स्वपक्षं यापयितुं - आत्मानं स्वपक्षे स्थापयितुं 'अचयंता' अशक्नुवन्तः, ततो वादं निराकृत्य भूयोऽपि प्रगत्मिताः सन्तो धृष्टत्वं कुर्वन्ति, वादपरित्यागेऽपि धृष्टाः सन्त एवं भाषन्ते - अस्माकं परम्परैव प्रमाणं यदस्माकं गुरुपरम्परागतं तदेव श्रेयः प्रमाणं “ पुराणं [ शाखं] मानबो धर्मः, x' कारणे सति श्राव केणानीत माहारादिग्लानयतेः कल्पते ' इत्यक्षरघटना ।
Jain Education International
For Private & Personal Use Only
३ उपसर्ग
परिज्ञा
sorr
तृतीयो -
देश के
रागद्वेषाभि
भूतत्वं
तीर्थान्तरी
याणाम् ।
॥ ४ ॥ ५६ ॥
www.jainelibrary.org