SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ - - - न शोमनं, अतिकण्डूयने हि व्रणो गाढतरं दोषमावहति, तथा अति साधुनिन्दा च भवतां न श्रेयसे इति गाथार्थः ॥ १३ ॥ तत्तेण अणुसिट्ठा ते, अपडिन्नण जाणया । न एस णियए मग्गे, असमिक्खा वदी किती ॥ १४ ॥ व्याख्या-'तत्वेन' परमार्थेन यथावस्थितार्थप्ररूपणया ['ते' ] गोशालकमतीया बोटिकाश्च 'अनुशासिताः' शिक्षा ग्राहिताः। कथम्भूतेन साधुना ? ' अप्रतिज्ञेन' असदपि समर्थनीयमित्येवं प्रतिज्ञारहितेन, पुनः कीदृशेन ? 'जानता' हेयोपादेयार्थपरिच्छेदकेन । कथं अनुशासिता ? इत्याह-न एस नियए मग्गे' एष भवदीयो मार्गो न नियतो-न युक्तिसङ्गत:-अयुक्त इत्यर्थः। कथं ? यदस्मानुद्दिश्योक्तं-' यायं गृहस्थकल्पाः' तेषा ( १ भवता )मसमीक्ष्याभिहिता अपर्यालोच्योक्तैषा वाग, तथा ‘कृतिः' करणमपि भवदीयं कर्तव्यमपि असमीक्षितमेव-अनालोचितमेव असम्बद्धमेवेति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तेनाहएरिसा भो! वई एसा, अग्गवेणुव करिसिता। गिहिणो अभिहडं सेयं, भुंजिउं णउ भिक्खुणं ॥१५॥ __व्याख्या-भो वादिनः ! येयमीक्षा वाग् , यथा-यतिना ग्लानस्थानीय न देयमित्येषा अग्रे 'वेणुवत' वंशवत्कर्षिता 'तन्वी' दुर्बलेत्यर्थः, युक्तिं न क्षमते । केयं वाग् ? यद्भवतोच्यते-ग्लानस्य गृहिणा आनीतमाहारं योग्यं कल्पते, परं यतेने यतिना आनीतं कल्पते, इत्येषा वाक् अयुक्ता, वयं तु एवं जमा-गृहिणा आनीतमुत्सर्गेण ग्लानस्य अकल्पनीयं, साधुना Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy