________________
सूयगडाङ्गसूत्रं
दीपिका न्वितम् ।
॥ ५५ ॥
व्याख्या - अथ मिक्षुस्तान - परतीर्थिकान् साधुनिन्दापरानुद्दिश्य ' परिभाषेत ' ब्रूयात् कथम्भूतो भिक्षुः १ 'मोक्षविशारदः ' मोक्षमार्गस्य प्ररूपकः । भो तीर्थिकाः ! एवं साधून्निन्दमाना यूयं द्विपक्षासेवका - रागद्वेषात्मकं पक्षद्वयं सेवध्वं, सदोषस्यात्मपक्षस्य समर्थनाद्रागः साधुनिन्दया तु द्वेषः, एवं द्विपक्षासेवकाः, यद्वा बीजोदकोद्दिष्ट भोजनाद्गृहस्था मात्रधारकत्वाद्वयं प्रव्रजिताश्वेत्येवं पक्षद्वयसेविनः, यदि वा स्वतोऽसदनुष्ठानपरा अपरं च सदनुष्ठानवतां च निन्दया द्विपक्षसेविनो यूयमिति गाथार्थः ॥ ११ ॥
अथ ते प्रोचुः कथं वयमसदाचारवन्तः १ इति अधुना तेषामसदाचारं प्रकटयन्नाह -
तुब्भे भुंजह पाएसु, गिलाणा अभिहडंमि य । तं च बीओदगं भोच्चा, तमुद्दिस्सा य जं कडं ॥ १२ ॥ व्याख्या - वयमपरिग्रहा निष्काश्चना इति बुद्ध्या कांस्यपात्रेषु भुंग्ध्वं गृहस्थपात्रेषु भुञ्जानास्तत्परिग्रहात्सपरिग्रहा जाता यूयमिति, तथा ग्लानस्य गृहस्थपार्श्वदाहाराद्यानयने अभ्याहृतदोषश्च भवतां प्रकट एव तथा बीजोदकभोजिन उद्देशिकभोजिनश्व, एवं प्रकटमेव भवतामसदाचारपरत्वमिति गाथार्थः ॥ १२ ॥
लित्ता तिवाभितात्रेणं, उज्झिया असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥
व्याख्या - भो तीर्थिकाः ! यूयं षड्जीव [नि ] कायविराधनारूपेण साधुनिन्दारूपेण च तीव्रेण सन्तापेन लिप्तास्थ, तथा ' उज्झिया ' इति विवेकशून्या 'असमाहिया ' शुभध्यानरहिता:, यथाऽरुषो[अरुकस्य ] व्रणस्यातिकण्डूयनं ' न श्रेयो '
Jain Education International
For Private & Personal Use Only
३ उपसग
परिज्ञा
ऽध्ययने
तृतीयो
देश के
ऽसदाचा
रत्वं
तीर्थान्तरी
याणाम् ।
।। ५५ ।।
www.jainelibrary.org