________________
संबद्धसमकप्पा हु, अन्नमन्नेसु मुच्छिता । पिंडपातं गिलाणस्स, जं सारेह दलाह य ॥ ९ ॥ __ व्याख्या-ते परतीथिका एवं भाषन्ते, भो भिक्षवः ! यूयं सम्बद्धाः' गृहिणस्तत्समकल्पा:-गृहस्थसदृशा इत्यर्थः। कथं ? यथा गृहिणः परस्परमुपकारे वर्तन्ते, यथा माता युत्रं पालयति तथा पुत्रोऽपि मातरमिति अन्योन्य मूच्छिता परस्परं परोपकारनिरतास्तथा भवन्तोऽपि गुरुशिष्यायुपकारिणो गृहिवत् , यथा गृहिणः परस्परमुपकारिणो दानादिना, तथा यूयमपीति भावः । तदेव दर्शयति-पिण्डपातं ग्लानस्य 'सारेह' ति गवेषय, यथा-ग्लानोपकाराय आहारमानीय ददध्वं, एवं परस्परं, गुरोश्च वैयावृत्त्यं कुरुध्वं, एवं भवन्तो गृहस्थसमकस्पा इति गाथार्थः ॥९॥ ___अथैतद्धाषिषां दोषदर्शनायाह| एवं तुब्भे सरागत्था, अन्नमन्नमणुवसा । नट्सप्पहसब्भावा, संसारस्स अपारगा ॥१०॥
__ व्याख्या-एवं परस्परोपकारेण गृहस्था इव सरागस्था:-सरागिणः, तथा अन्योन्यं 'वनमुपागवाः' परस्परायत्ता:मिथोऽधीनाः, यतयो हि न कस्याप्यधिना, निस्सङ्गतया स्वाधीना एव भवन्ति, अयं तु गृहिणामाचारो यत्परस्पराधीनत्वं, अत एव नष्टसत्पथसद्भावा यूयं सन्मार्गानभिज्ञाः, अतो न संसारपारगामिन इति माथार्थः ॥१०॥
अयं पूर्वपक्षः, अस्य दूषणायाह-- अह ते परिभासेज्जा, भिक्खू मोक्खविसारए । एवं तुन्भे पभासंता, दुप्पक्खं चेव स्वेवह ॥११॥
Join Education
For Private & Personal Use Only
prww.jainelibrary.org