SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter कोजाइ ? विवातं, इत्थीओ उदगाउ वा । चोइजंता पवक्खामो, ण णो अस्थि पप्पियं ॥४॥ व्याख्या - साधुः कातरः सन् एवं चिन्तयति, यथा- को जानाति ? मम कुतोऽपि [' व्यापातः' ] संयमभ्रंशो भविष्यति, न जाने स्त्रीतः सचित्तोदकपरिभोगाद्वा, कर्मणां विचित्रा गतिः, को जानाति १ व्यापातं संयमजीविताशे, एवं ते वराकाः aanana चिन्तां प्रकल्पयन्ति, यथा- पूर्वोपार्जित नास्माकं कञ्चन द्रव्यजातमस्ति यत्तस्यां वेलायां कार्य समेति, अन्यद्वा ज्योतिष्कमन्त्रतन्त्रकुण्टलविष्टलादिकं न विद्मो यत्परेण पृष्टाः सन्तः प्रयोक्ष्यामः - कथयिष्यामः, इति विचिन्त्य साधवः पापश्रुतादौ प्रवर्त्तन्ते, न च तथापि भाग्यहीनानां कार्यसिद्धिर्जायत इति गाथार्थः ॥ ४ ॥ इच्चैवं पडिलेहांत, वलयप्पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं व अकोविया ॥ ५ ॥ व्याख्या - इत्येवं यथा भीरवः सङ्ग्रामे प्रविशन्तः वलयादिप्रत्युपेक्षिणो भवन्ति, एवं प्रव्रजिता अपि अल्पसाः आजीविका भयान्मन्त्रतन्त्रादिकं जीवनोपायत्वेन परिकल्पयन्ति, कीदृशाः सन्तः १ विचिकित्सा समापन्ना, विचिकित्साचित्तविप्लुतिः, यथा वयमेनं संयमभारं निर्वोढुं समर्था उत नेति विकल्पपराः, यथा पान्थाः पन्थानं प्रति ' अकोविदाः मार्गानभिज्ञाः किमयमध्वा विवक्षितं स्थानं यास्यति न वेति चिन्तापरा भवन्ति तथा साधवोऽपि संयमभारोद्वहने असमर्थाः कुण्टलविण्टलादिकं आजीविकाकृते अभ्यसन्तीति गाथार्थः || ५ | साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह— जे उ संगामकालम्मि, नाता सूरपुरंगमा । नो ते पिट्ठमुवेहिंति, किं परं मरणं सिया ? ॥ ६ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy