________________
खूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ५३ ॥
भग्नः सन् अत्र प्रवक्ष्यामि, को जानाति युद्धे को जयति कः पराजयति " युद्धस्य हि गतिर्देवी, कस्तत्र जयन - श्रयः । " इति वचनात् स्तोकैचर्हवो जीयन्ते, कार्यसिद्धयो हि दैवायत्ता, इति बुद्ध्या भीरुः पूर्वमेव वलयादिकं विलोक्यैव युद्धे प्रविशतीति गाथार्थः ॥ १ ॥ किश्च -
मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसी । पराजियाऽवसप्पामो, इति भीरू उवेहती ॥ २ ॥
व्याख्या - मुहूर्तानां मध्ये एकः कोऽपि तादृशो मुहूर्त्तः + समेति यत्र जयश्चिन्त्यते तत्र पराजयोऽपि स्यात्, तदा भङ्गे सति का गतिः स्यात् ? इति कातरस्तु पूर्वमेव त्राणाय विषमं स्थानं दुर्गादिकं विलोकयतीति गाथार्थः ॥ २ ॥
अथ दार्शन्तिकं दर्शयति
एवं तु समणा एगे, अवलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पतिमं सुयं ॥ ३ ॥
व्याख्या - एवं पूर्वोक्तका तरदृष्टान्तेन कोऽपि कातरः भ्रमणः स्वं यावज्जीवं संयमभारं उद्वोढुं अबलं ज्ञात्वा एतावता संयमभारोद्वहनाय असमर्थः सन् अनागतं भयं दृष्ट्वा, यथा अकिञ्चनोऽहं मम वृद्धावस्थायां ग्लानत्वे दुर्भिक्षे वा आजीविका भयं उत्प्रेक्ष्य इमं श्रुतं व्याकरणं ज्योतिष्कं वैद्यकं मन्त्रादिकं ममावसरे त्राणाय भविष्यतीत्येवं कल्पयन्ति-परिकल्पयन्ति त्राणभूतं मन्यन्ते[कातराः श्रमणाः], एतावता आजीविकाकृते व्याकरणज्योतिष्कादिकं शास्त्र शिक्षयतीति गाथार्थः ॥ ३ ॥ तथा च-x " एकस्य वा मुहूर्त्तस्य " + " कालविशेषः " इति हर्ष० ।
Jain Education International
For Private & Personal Use Only
३ उपसर्ग
परिज्ञाऽध्ययने
तृतीयो
देश के उपसर्ग -
भीरुत्वं ।
॥ ५३ ॥
www.jainelibrary.org