________________
Jain Education
महाविषमे पथि यूनोsपि अवसीदनं सम्भाव्यते, किम्पुनर्जरद्गवस्य । तथाऽऽवर्तैरुपसर्गितानां मन्दानां साधूनामवसीदनं युक्तमेवेति गाथार्थः ॥ २१ ॥
एवं निमंतणं लधुं, मुच्छिया गिद्ध इत्थिसु । अज्झोववन्ना कामेहिं, चोइज्जंता गया गिहंति | २२ | तिबेमि
व्याख्या - एवं पूर्वोक्तप्रकारेण कामभोगेषु निमन्त्रिताः मूर्च्छिताः धनकनकादिषु तथा स्त्रीषु गृद्धाः दत्तावधाना रमणीरागमोहिताः कामेषु अभ्युपपन्नाः कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा ' शिक्षिता: ' संयमं प्रतिप्रोत्साद्यमाना अपि केsपि गुरुकर्माणः संयमं परित्यज्य अल्पसच्चा गृहं गताः-गृहस्थीभूताः, इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् इति गाथार्थः ॥ २२ ॥
इत्युपसर्गपरिज्ञायां द्वितीयोदेशकटीका समाप्ता |
अथ तृतीयोदेशकः प्रारभ्यते—
जहा संगामकालम्मि, पिट्ठतो भीरु पेहति । वलयं गहणं नूमं, को जाणई ? पराजयं ॥ १ ॥
व्याख्या– मन्दमतयो हि दृष्टान्तं विना न बुद्धयन्ते तेन पूर्वं दृष्टान्तः प्रतिपाद्यते, यथा कश्चिद्भीरुर्युद्धे समुपस्थिते पूर्वमेव परित्राणाय दुर्गादिकं विषमस्थानमवलोकयति, तदेवाह - ' वलयं ' वलयाकारेण उदकवेष्टितं तथा ' गहनं ' धवादिकण्टकिवृक्षैः परिच्छन्नं 'णूमं 'ति प्रच्छन्नं गिरिगुहादिकं नाशाय आत्मनो त्राणभूतं तथाविधं किञ्चित्स्थानं गयेपयति,
For Private & Personal Use Only
www.jainelibrary.org