________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ५२ ॥
त्वया संयममनुष्ठितं साम्प्रतं गृहवासे वसतो नानाविधैर्विषयोपकरणैर्भोगान् भुक्तवतस्तव न किमपि दूषणं, एवं साधुं भोगैर्निमन्त्रयन्ति-भोगबुद्धिं कारयन्ति, यथा ' नीवारेण ' व्रीहिविशेषकणदानेन शूकरं कूटके + प्रवेशयन्ति, एवं साधुमपि प्रलोभयन्तीति गाथार्थः ।। १९ ।। अथोपसंहारार्थमाह
1
चोइया भिक्खुचरियाए, अचयंता जवेत्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ॥ २० ॥ व्याख्या -' भिक्षुचर्या ' दशविधचक्रवालसामाचारी, तया सीदन्तः- तत्करणं प्रति पौनःपुन्येन प्रेर्यन्ते, ततः प्रेरिताः सन्तस्तत्प्रेरणां दीयमानां शिक्षां अशक्नुवन्तः कर्त्तुं संयमानुष्ठानेन आत्मानं यापयितुमसमर्थाः सन्तस्तत्र संघ मे ' मन्दाः जडा ' विषीदन्ति ' शीतलविहारिणो भवन्ति, संयमं त्यजन्तीत्यर्थः । दृष्टान्तमाह-'उज्जाणंसि 'त्ति उद्यानशिरसि -महाविषमे पथि शकटमारे योत्रिता दुर्बला 'उक्षाणो' वृषभाः ग्रीवामधः कृत्वा नीचैः पतित्वा विष्ठन्ति, नोत्सहन्ते तं शकटभारमुद्रोढुं तथा साधवोऽपि पञ्चमहाव्रतभारभग्ना एके कण्डरीकादिवत्संयमधुरमुत्सृज्य दूरे भवन्तीति गाथार्थः ॥२०॥ किञ्च - अचयंता व हेणं, उवहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणांस जरग्गवा ॥ २१ ॥
व्याख्या- ' रूक्षेण ' संयमेन आत्मानं निर्वाहयितुमशक्नुवन्तः, तथा ' उपधानेन ' बाह्याभ्यन्तरभेदभिन्नेन तपसा ' तर्जिताः ' बाधिताः परीषहैच जिता एके अल्पसच्चाः संयमे विषीदन्ति । 'उद्यानशिरसि ' उड्ढङ्कमस्तके X दुर्बलो गौरिख,
+ पिञ्जरे । x अतिविषमाध्वनि ।
Jain Education International
For Private & Personal Use Only
३ उपसर्ग
परिज्ञा
sarय मे
द्वितीयो
देश
ऽनुकलोपसर्गाः ।
॥ ५२ ॥
www.jainelibrary.org