________________
व्याख्या-[यथा] अटव्यां जातं वृक्षं 'मालुया'वल्ली 'प्रतिबध्नाति' वेष्टयति, तथा 'ज्ञातयः' स्वजनास्तं यति असमाधिना प्रतिबध्नन्ति, ते ज्ञातयस्तथा तथा कुर्वन्ति यथा यथा साधोरसमाधिरुत्पद्यत + इति गाथार्थः ॥१०॥ विबद्धो नातिसंगेहि, हत्थी वा वि नवग्गहे । पिटुतो परिसप्पंति, सूयगोव्व अदूरए ॥ ११ ॥
व्याख्या-'विबद्धोबद्धः-परवशीकृतः [ज्ञातिसङ्गै-र्मातापित्रादिसम्बन्धैः] 'ज्ञातयः' सगीनाः सर्वमनुकूलमनुतिष्ठन्तस्तथा धृतिमुत्यादयन्ति यथा हस्ती नवीनधृतो धृत्युत्पादनार्थमिक्षुशकलैरुपचर्यते, एवमसावपि साधुः सर्वानुकूलैरुपायैरुपचर्यते । दृष्टान्तान्तरमाह-यथा नवप्रसूता गौनिजवत्सकस्य स्नेहबद्धा 'अदूरगा' समीपवर्तिनी सती पृष्टत एव 'परिसर्पति' गच्छति, IN तथा ते स्वजनास्तमुत्प्रवजितं पुनर्जातमिव [ मन्यमानाः] पृष्टतोऽनुसर्पन्तीति गाथार्थः॥११॥ सङ्गदोपदर्शनायाह| एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नायसंगेहि मुच्छिया ॥१२॥
व्याख्या-एते पूर्वोक्ताः 'सङ्गाः' स्वजनसम्बन्धाः कर्मबन्धहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इव 'अतारिमा' दुस्तराः, अल्पसत्वैर्दुःखेनातिलङ्घयन्ते, येषु सङ्गेषु 'क्लीवाः' कातराः क्लेशमनुभवन्ति-संसारे दुःखभागिनो भवन्ति, ज्ञातिसङ्गैर्मूञ्छिताः-गृद्धाः सन्तो न चिन्तयन्त्यात्मानं संसारान्तर्वार्तनमिति गाथार्थः ॥ १२ ॥ अपि चतं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिजा, सोचा धम्ममणुत्तरं ॥१३॥
+ “ यदुक्तं-अमित्तो मित्तवेसेण, कंठे घेत्तूण रोयइ । मा मित्ता! सोग्गई जाह, दोवि गच्छाम दुग्गई ॥१॥” इति हर्ष.
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org