SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मायरं पियरं पोस, एवं लोगो भविस्तइ । एवं खु लोइयं तात !, जे उ पालेति मायरं ॥ ४ ॥ व्याख्या-मातरं पितरं 'पुषाण' पोषय, एवं च कृते तवोभयलोकसिद्धिः, तात ! इदमेव लौकिक-अयमेव लोकाचीर्णः पन्थाः, यद्बुद्धयोर्मातापित्रोः पालनं, यतः-"सुच्चिय जयम्मि जाओ, सुचिय कुलविमलनयलमियंको। जो जणणिजणयबंधव-गुरूण आसाओ पूरेइ ॥१॥” इति वचनात् । [इति] गाथार्थः ॥ ४ ॥ अपि चउत्तरा महुरुल्लावा, पुत्ता ते तात! खुड्डया । भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥ व्याख्या-'उत्तरा' उत्तरोत्तरजाता' मधुरोल्लापाः' मधुरभाषिणः, तात! तव पुत्राः मन्मनालापाः क्षुल्लकास्ते लघवः, तथा भार्या ते 'नवीना' नवयौवना, नवोढा च माऽसौ त्वया परित्यक्ताऽन्यं जनं गच्छे-दुन्मार्गचारिणी मा भूयादयं च महाँल्लोकापवाद इति गाथार्थः ॥ ५ ॥ अपि चएहि ताय ! घरंजामो, मातं कम्मसहा वयं । बितियं पि ताय! पासामो, जामु ताय ! सयं गिहं ॥६॥ ___व्याख्या-जानीमो वयं, यथा-त्वं गृहकार्यभीरुस्तथाप्येह्यागच्छ गृहं यामो, मा त्वं किमपि कर्म कथा, अपितु समुत्पन्ने कार्य वयं सहाया भविष्यामः, एकवारं त्वं गृहकार्येभ्यो भग्नः परमधुना द्वितीय[मपि]वारं द्रक्ष्यामो यदस्माभिः सहायैस्तव न किञ्चिद्विनक्ष्यति, तदेहि गृहं याम, एतदस्मद्वचनं कुर्विति गाथार्थः॥६॥ किश्च १ स एव जगति जातः स एव कुलविमलनमस्तलमृगाङ्कः । यो जननीजनकबान्धव-गुरूणां आशाः पूरयति ॥ १॥ Jain Education in For Privale & Personal use only Www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy