SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सूयगडा सूत्रं दीपिका न्वितम् । जीवितान्तकः प्रतिकूलोपसगैंर्माध्यस्थ्यमवलम्ब महापुरुषैरवस्थातुं शक्यते, परमेते त्वनुकूलाः साधूनामपि धर्माच्यावयन्ति, | तेनैव दुरुत्तरा इत्युक्तं, अत एतेष्वनुकूलोपसर्गेषु उदीर्णेषु एके अल्पसत्त्वाः 'विषीदन्ति' शीतलविहारिणो भवन्ति-संयमा दश्यन्ति, ते कातरा नैवात्मनं संयमे 'यापपितुं' व्यवस्थापयितुं शक्नुवन्ति, न संयमे समर्था भवन्तीति गाथार्थः ॥१॥ ___ अथ तानेव सूक्ष्मान् सङ्गानुपदर्शयतिअप्पेगे नातगा दिस्स, रोयंति परिवारिया। पोस णे ताय! पुट्ठोसि, कस्स तात!जहासि णे ॥२॥ व्याख्या-एके ज्ञातयो मातापित्रादयः प्रवजितं प्रव्रजन्तं वा दृष्ट्वा 'परिवार्य' वेष्टयित्वा रुदन्ति एवं [च] वदन्ति दीनं, यथा-अस्माकं पोषको भविष्यसीति बुद्धयाऽस्माभिरावाल्याचं पोषितः, अधुना'णे' अस्मानपि त्वं 'तात' पुत्र! + 'पोषय' पालय, कस्य कृते-केन कारणेन अस्माँस्त्यजसि ? नास्माकं त्वां विना कश्चिदन्यः पालकोऽस्तीति गाथार्थः ॥२॥ किश्चपिया ते थेरओ तात!,ससा ते खुड्डिया इमा। भायरो ते सगा तात!,सोयरा किं चयासि?णे ॥३॥ ___व्याख्या-पुत्रा एवं वदन्ति-अहो तात ! तब पिताऽसौ 'स्थविरो' वृद्धः, तथा ' स्वसा' भगिनी 'लघीयसी' इमा पुरः स्थिता, तथा भ्रातरस्ते 'स्वका' निजास्तात ! सोदरा, एतान् पालनानि किमित्यस्माँस्त्यजसीति गाथार्थः ॥३॥ ___ + तन्यते-विस्तार्यते कुलसन्ततिर्येनेति व्युत्पत्त्या " तातोऽनुकम्प्ये पितरि चे"ति हेमानेकार्थवचने नानुकम्पाईत्वापुत्रोऽपि | तात'शब्देनात्र गृह्यते । ३ उपसर्गः परिज्ञाऽध्ययने द्वितीयोद्देशकेनुकूलोपसर्गाः। ॥४९॥ MIN४९॥ Jain Education a l For Privale & Personal use only T w w.jainelibrary.org UIler
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy