SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ रोषेण गृहानिर्गता सती निराश्रया मांसपेशीव सर्वस्पृहणीया सर्वतोऽभिगमनीया चौरादिभिरभिद्रुता सती सञ्जातपश्चात्तापा स्वगृहमानुषाणां स्मरति, एवं साधुरपि अनायः कदर्थितः ज्ञातीनां स्मरतीति गाथार्थः॥ १६ ॥ उपसंहरबाह एए भो! कसिणा फासा, फरुसा दुरहियासया । हत्थी वा सरसंवीते, कीवा अवसा गया गिहं तिबेमि ॥ १७॥ व्याख्या-भो इति शिष्यामन्त्रणं, एते परीषहाः पूर्वोक्ता अनार्यकृताः ‘कृत्स्नाः' सम्पूर्णाः 'परुषा' कर्कशाः अल्पसत्त्वदुःखेनाधिसह्यन्ते, ततश्च असहमानाः लजां त्यक्त्वा अश्लाघामङ्गीकृत्य पुनहवासमाश्रयन्ते, रणशिरसि शरजालैः संवीताः हस्तिन इव भङ्गमुपयान्ति 'क्लीबाः' असमर्था-अबशाः कर्मायत्ताः पुनर्गृहं गच्छन्तीति, ब्रवीमिति पूर्ववत् ॥ १७ ॥ इत्युपसर्गपरिज्ञायाः प्रथमोद्देशकः समाप्तः। अथ द्वितीयः समारभ्यते, तथाहि-उपसर्गा द्विधा, अनुकूलाः प्रतिकूलाच, तत्र प्रथमोदेशके प्रतिकूलाः प्रतिपादिताः, अथ द्वितीये अनुकूलाः प्रतिपाद्यन्ते, तत्रेयमादिगाथाआहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा । जत्थ एगे विसीयंति, न चयंति जवित्तए ॥१॥ व्याख्या-अथ (१) अथानन्तरं एते सूक्ष्माः सङ्काः अनुकूलाः, यथा प्रतिकूला: शरीरव्यथाकारिणस्ते बादरा अभिधी | यन्ते, तथा इमे आन्तराश्चेतोविकारकारिणः 'सङ्गा मातापितादिसम्बन्धाः 'भिक्षुणां' साधूनामपि 'दुरुत्तरा दुर्लकथा, प्रायो | Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy