SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विद्वेषिणः ईदृशा एव भवन्तीति गाथार्थः ॥ ११ ॥ अथ दंशमशकपरीषहमधिकृत्याहपुट्ठो य दंसमसएहि, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२॥ व्याख्या-सिन्धुताम्रलिप्तकोकणादिषु देशेषु प्रायो दंशमशकाः स्युः, अथ साधुः कदाचित्तत्र देशे गतः सन् दंशमशकादिमिः 'स्पृष्टो' भक्षितः, तथा वस्त्रप्रावरणादिरहितस्तृणेषु शयानस्तत्परीषहं सोढुमशक्तस्सन् कदाचित्तदार्तिपतित एवं | चिन्तयेत्-ईदृश्यो दुष्कराः क्रियाः परलोकाय विधीयमानाः सन्ति, इदमनुष्ठानं परलोकसाधनाय साधुभिर्विधीयते, स तु परलोकः केनापि न दृष्टः, न कोऽपि परलोकं दृष्ट्वा आयातः, मयाऽपि न दृष्टः, ( यदि ) परमनेन क्लेशेन परलोको न भविष्यति, परं दंशमशकः पीडितस्य मे मरणं निश्चयेन भविष्यति, अनेन परीपहोपसर्गेण मरण विना नान्यत् किश्चित्फलमस्तीति गाथार्थः ॥ १२ ॥ अपि चसंतत्ता केसलोएणं, बंभचेरपराइया । तत्थ मंदा विसीयंति, मच्छाविट्ठा व केयणे ॥ १३ ॥ व्याख्या:-केचन कातराः केशलोचेन 'सन्तप्ताः' पीडिताः सरुधिरकेशोत्पाटनेन महती शिरसि व्यथा जायते, तया च व्यथया व्यथिताः सन्तो 'द्यन्ते ' भज्यन्ते संयमाद्भग्नचित्ता जायन्ते, तथा ब्रह्मचर्येण-बस्तिनिरोधेन पराजिताः सन्तः केशोत्पाटनेन अतिदुर्जयकन्दर्पदर्पण वा पराजिताः सन्तो 'मन्दा' जडाः विषीदन्ति-संयमे शैथिल्यं प्रतिपद्यन्ते, यथा 'केतने ' मत्स्यबन्धने प्रविष्टाः सन्तो मत्स्याः निर्गतिका जीवितं त्यजन्ति, एवं ते वराकाः कामकदार्थता: केशोत्पाटन VAN Jain Education in For Private & Personal Use Only omw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy