________________
सूयगडा
परीषहाध्ययने प्रथमो.
दीपिकान्वितम् ।।
द्देशके
॥४७॥
अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो ॥९॥ __व्याख्या-केचन ग्रामीणा अनार्याः पामराः साधुषु द्वेषभावमुपगताः शत्रुप्राया एवं निष्ठुरं भाषन्ते, यथा-एते वराकाः | प्राग्जन्मोपार्जितमशुभकर्मफलमनुभवन्ति, ये इमे परगृहभिक्षयोपजीवन्ति, मध्याह्ने प्रस्वेदमलाविला रजोऽवगुण्डिताः परगृहेषु भिक्षायै अटन्ति, य एवंजीविन इति, लुश्चितशिरस: अदत्चदानाः सर्वथा भोगवश्चिता दुःखं जीवन्तीति गाथार्थः॥९॥ किञ्च
अप्पेगे वइजुजुति, नगिणा पिंडोलगाहमा। मुंडा कंडविणटुंगा, उज्जल्ला असमाहिता ॥१०॥ ___व्याख्या-अपि 'एके' केचन अनार्या ईदृशं वाचं 'प्रयुञ्जन्ति' भाषन्ते, एते जिनकल्पिकाः नग्नास्तथा 'पिण्डोलग 'ति पिण्डप्रार्थका अधमा मलाविला 'मुण्डा' मुण्डितशिरसः कण्डूविनष्टाङ्गा:-विकृतशरीराः कुष्ठिन: सनत्कुमारवद्विनष्टदेहाः 'उज्जल्ला:' शुष्कप्रस्वेदवन्तः बीमत्साः दृष्टा वा जन्तूनामसमाधिमुत्पादयन्तीति गाथार्थः ॥१०॥
अथैतद्भापकाणां विपाकं दर्शयतिएवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमातो ते तमं जंति, मंदा मोहेण पाउडा ॥११॥ ___व्याख्या-एवमेके अपुण्यकर्माणः अज्ञानिनो 'विप्रतिपन्नाः' साधुद्वेषिणः स्वयमात्मना अज्ञानिनः अन्येषां विवेकिनां व शिक्षादानोद्यतानां वचनं अकुर्वन्तस्तमसोऽज्ञानरूपात्तदुत्कृष्टं तमो यान्ति, अथवा अधस्तादप्यधस्तनीं गतिं गच्छन्ति, किमिति ? यतस्ते मन्दा 'मोहेन ' अज्ञानेन 'प्रावृता' आच्छादिता मिथ्यादर्शनेन वा स्थगिताः पिङ्गप्रायाः साधु
दुस्सहनीयत्वं ग्रामकण्टकानाम्।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org