________________
Jain Education it
प्रायः पौरुषहीनानां, जीवनो पायकौशलम् ॥ १ ॥ " इति वचनात् । तथा पुनरेते 'दुर्भगाः ' पुत्रदारादिपरित्यक्ताः निर्गतिकाः सन्तः प्रव्रज्यां प्रतिपन्ना इति गाथार्थः ॥ ६ ॥
एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्थ मंदा विसीयंति, संगामम्मिव भीरुणो ॥ ७ ॥
व्याख्या - एतान् आक्रोशरूपान् शब्दान् सोढुमशक्नुवन्तो ग्रामेषु नगरेषु अरण्यादिषु वा व्यवस्थिताः, एके यतयो ' मन्दा ' अविवेकिनस्तुच्छप्रकृतयो 'विषीदन्ति ' विमनस्का जायन्ते, संयमाद्रश्यन्ति यथा भीरवो भटाः सङ्ग्रामे शस्त्रझलत्कारं सुभटकोलाहलाकर्णनेन समाकुलाः सन्तो भज्यन्ते, पौरुषं परित्यज्यायशश्च पुरस्कृत्य निकाः सहामात्पराङ्मुखा वलन्ति, एकमेके- केचन, न सर्वे, आक्रोशशब्दाकर्णनादल्पसच्चा विषीदन्तीति गाथार्थः ॥ ७ ॥
अप्पे खुधितं भिक्खु, सुणी दंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ॥ ८ ॥
व्याख्या – कश्चिच्छ्कादिर्लूषकः - प्रकृत्यैव क्रूरो मक्षकः ' क्षुधितं ' बुभुक्षितं भिक्षामन्तं साधुं दशति -अङ्गावयवान् विलुम्पति त्रोटयति । ' तत्र ' तस्मिन् श्वादिभक्षणपरीषहे उदीर्णे सति मन्दा ' विषीदन्ति ' दैन्यं भजन्ते, यथा ' तेजसा ' अग्निना स्पृष्टा दह्यमानाः प्राणिनो 'विषीदन्ति ' गात्रं सङ्कोचयन्ति एवं साधुरपि क्रूरसन्चैरभिद्रुतः संयमाद्भङ्गसुपयाति यथाऽग्निना दह्यमाना: जन्तवो जीवितं त्यजन्तीति गाथार्थः ॥ ८ ॥
दुस्सहा ग्रामकण्टकाः पुनरपि तानधिकृत्याह -
For Private & Personal Use Only
www.jainelibrary.org