________________
| पयाया सूरा रणसीसे, संगामम्मि उवट्ठिते। मायापुत्तं न याणाइ, जेएण परिविच्छत्ते ॥२॥
व्याख्या-प्रकर्षेण विकटपादपातं ' रणशिरसि' सङ्घाममूर्द्धनि नाशीरत्वेx योजिताः 'शूराः' सुभटंमन्याः। कथम्भूते रणे ? सर्वत्राकुलीभूतत्वान्माता स्वकटीतो भ्रश्यन्तं पुत्रं न जानाति, इत्येवममातापुत्रीये सङ्क्रामे परानीकसुभटेन जेत्रा तीक्ष्णैाराचप्रभृतिभिः शस्तैर्विविधं 'क्षतो' हतश्छिन्नो वा यथा कश्चिदल्पसचो मामुपयातीति गाथार्थः ॥ २॥
अथ दार्शन्तिकमाहएवं सेहे वि अपुढे, भिक्खायरिया अकोविए । सूरं मन्नति अप्पाणं, जाव लूहं न सेवए ॥३॥
व्याख्या-यथा यत्र माता स्वकटीतो भ्रश्यन्तं स्तनन्धयं न वेत्ति, एवंविधे विषमे रणशिरसि कश्चिच्रंमन्यः परानीकनिक्षिप्तसायकधोरणीभिः विह्वलीभूतः सन् भङ्गमुपयाति-दीनत्वं भजते, एवं शिष्यकोऽभिनवप्रव्रजितः परीषदरस्पृष्टःअनुत्पन्नपरीषहपीडः प्रव्रज्यायां किं दुष्करं ? इत्येवं गर्जन् भिक्षाचर्यायामनिपुणः अन्यस्मिन्नपि साध्वाचारे अप्रवीणः सन् आत्मानं शिशुपालवत् शूरं मन्यते यावजेतारमिव रूक्ष' निरास्वादं वालुकाकवलवत् संयम न भजते, गृहीते तु संयमे परीषहेरभिद्रुता अल्पसचाः प्राणिनो भङ्गमुपयान्ति, संयमाद्मश्यन्ते, कण्डरीकवदिति गाथार्थः ॥३॥
संयमरूक्षत्वप्रतिपादनायाहx सेनामुखे।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org