________________
وفي المجاهد فيا قاسميا في السحاقيات في العالمنا وفي المقاعد محمد المحمداسماعت
यगडाङ्ग
सूत्रं दीपिकान्वितम् । ॥४५॥
३ परीषहाध्ययने प्रथमो
ज्ञातपुत्रो वर्द्धमानस्वामी विशाल्यां नगर्या अथवा विशालकुलोद्भवो ऋषभस्वामी एवमुदाहृतवानिति गाथार्थः ॥ २२ ॥ इति श्रीखरतरगणमण्डनसाधुरङ्गगणिवरनिर्मितायां श्रीसूत्र कताङ्गदीपिकायां द्वितीये बैतालीयाध्ययने
तृतीयोदेशकः समाप्तः । तत्समाप्तौ च वैतालीयाध्ययनं समाप्तमिति । Drmommemomenoneamrnsraemomenomrnemomromance
उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, संयम पालयतां साधूनां परीपहा उत्पद्यन्ते, ते च सम्यक्सोढव्याः, अयमधिकारोऽस्मिन्नध्ययने, तेनेदं परीपहाध्ययनं, तत्रेयमादिगाथासूरं मन्नंति अप्पाणं, जाव जेयं न पस्सति । जुझंतं दढधम्माणं, सिसुपालोव महारहं ॥१॥
व्याख्या-यथा कश्चिल्लघुप्रकृतिकः पुमान् आत्मानं शूरं मन्यते-न मत्सदृशोऽपरः कश्चित्सुभटोऽस्तीति आत्मश्लाघापरो निस्तोयाम्बुद इव वाग्भिर्विस्फूर्जन गर्जति तावद्यावत्स्वतोऽप्यधिकतरं निष्कोशीकृतासिं पुरो जेतारं न पश्यति, तस्मिन् दृष्टे निर्मदो भवति । अत्रार्थे दृष्टान्तमाह-यथा शिशुपाल आत्मश्लाघाप्रधानं गर्जितवान् , पश्चायुध्यमानं दृढधर्माणं 'महारथं' नारायणं दृष्ट्वा प्राग्गर्जा[व] प्रधानोऽपि क्षोभं गतः, + एवमुत्तरत्र दार्शन्तिकेन योजयिष्यते, इति गाथार्थः ॥१॥
साम्प्रतं सार्वजनीनं दृष्टान्तमाह+ निर्मदो जात इति भावः।
परीषहाजेयत्वं कातराणाम् ।
॥४५॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org