________________
व्याख्या-'वित्तं ' धनधान्यहिरण्यादि 'पशवो ' गोमहिषीतुरगादयस्तथा स्वजना-मातृपितृपुत्रकलत्रादयस्तदेतत्सर्व'वालो' मूर्खः शरणं मन्यते, एते मम सर्वे परिभोगे उपयोक्ष्यन्ते, अहं त्वेतेषामुपयोगे समेष्यामि, न पुनरेवं जानीतेयदर्थ धनादि मृग्यते तदेव वपुरशाश्वतं, क वित्तायुपयोगे समेष्यति ? "रिद्धी सहावतरला, रोगजराभंगुरं हयं सरीरं ।।7 दोण्हं पि गमणसीलाणं, किच्चिरं होज संबंधो? ॥१॥" तथा "मातापितृसहस्राणि, पुत्रदारशतानि च । प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा ॥१॥" 'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति । नरकादौ पतितस्य रोगादिना वा पीडितस्य कचित्राणं (शरणं वा) विद्यत इति गाथार्थः ॥ १६ ॥ इत्येतदेवाह
अब्भागमितंमि वा दुहे, अहवा उक्कमिते भवंतिए ।
एगस्स गती य आगती, विदुमंता सरणं न मन्नई ॥ १७ ॥ व्याख्या-पूर्वकृतदुष्कर्मोदये दुःखमायाति, तदुःखमेक एवानुभवति, तथा मरणेऽप्यागते एक एव म्रियते, एक एव जन्ममरणादिदुःखमनुभवति, गतिरेकस्य आगतिरप्येकस्यैव, संसारे गमनागमनं कुर्वतो नापरः कोऽपि सहायो भवति, दुःखार्चस्य वित्ताद्यपि न शरणं, एवं ज्ञात्वा [विद्वान् ] न कमपि [ तावद् ] विनैकं धर्म शरणतया मन्यत इति गाथार्थः॥ १७॥ किञ्च
१ ऋद्धिः स्वभावतरला रोगजराभकुरं हतकं शरीरं । द्वयोरपि गमनशीलयोः कियश्चिरं भवेत्सम्बन्धः १ ॥१॥
Jain Education
For Privale & Personal Use Only
jainelibrary.org