________________
यदि प्रत्युत्पन्नं विना अतीतानागतं न मन्यसे तर्हि पितृपितामहादयोऽपि नाभूवन् , पुत्रपौत्रादिसन्ततेरपि व्यवच्छेदः, अतीतानागतयोरनाश्रयणात् इहलोकाश्रयणात् प्रत्युत्पन्नमेव मन्यमानस्त्वं सर्वव्यवहारविलोपेन हन्त !! हतोऽसि, असर्वज्ञाभ्युपगतदर्शनाश्रयणेन सर्वव्यवहारबाह्योऽसि, अतः असर्वज्ञानुयायिन् ! आत्मीयं कदाग्रहं परित्यज्य सवज्ञोक्ते मार्गे श्रद्धानं कुरु । किमिति स पुमान् सर्वोक्ते मार्गे श्रद्धानं न करोति ? तत्राह-'हंदि हु सुनिरुद्धदंसणे' स प्राणी 'हंदी'ति खेदे, + मोहनीयेन कर्मणा मिथ्यादर्शनेन ज्ञानावरणीयादिकेन कर्मणा वा ' सुनिरुद्धदर्शनः ' स्थगितविवेकचक्षुः, तेन सर्वज्ञोक्तं मार्ग न श्रद्धत्ते, अतस्तन्मार्गश्रद्धानं प्रति प्रोत्साह्यत इति गाथार्थः ॥ ११ ।। पुनरप्युपदेशान्तरमाह
दुक्खी मोहे पुणो पुणो, निविंदेज सिलोगपूयणं । एवं सहितेऽहिपासते, आयतुलं पाणेहिं संजए ॥१२॥ ___ व्याख्या- 'दुःखं ' असातवेदनीयं, तदस्यास्तीति दुःखी प्राणी पुनःपुनर्मोहं याति-सदसद्विवेकविकलो भवति,
कोऽर्थः ? असातोदयाहुःखमनुभवन्नाः सन् मूढस्तत्तत्करोति येन पुनःपुनर्दुःखी संसारसागरमनन्तं कालं पर्यटति । | तदेवम्भूतं मोहं परित्यज्य निर्विद्येत ' जुगुप्सयेत्परिहरेत् आत्मश्लाघां स्तुतिरूपां तथा पूजनं वस्त्रादिलामरूपं परिहरेत् ।
एवं परिवर्चमानः ४ सहितो-ज्ञानादियुक्तो वा 'संयतः' प्रबजितो सुखार्थिभिरात्मतुला-मात्मतुल्यतां दुःखाप्रियत्वं सुखप्रियत्वरूपामधिकं पश्येत्-आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति गाथार्थः ॥ १२ ॥ किश्च
+" हु शब्दो वाक्यालकारे, मोहनीयेन स्वकृतेन कर्मणा"| x" सह हितेन वर्तत इति सहितो" इति हर्ष ।
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org