SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पतितोऽधिकं शोचति, तथा च परमाधार्मिकैश्चात्यर्थ कदर्थ्यते, तिर्यग्गतावपि क्षुत्तष्णाशीतोष्णादिदुःखैः पीब्यमानोऽत्यन्तं 'स्तनति' करुणं क्रन्दति-मशब्दं निःश्वसिति 'परिदेवते' विलपत्याक्रन्दति सुबह्विति-"हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्या-दिह दुष्कृतचरितस्य पापस्य ॥१॥" इत्येवमादीनि दुःखानि पापकारिणः प्राप्नुवन्ति, तेन विषयाभिष्वङ्गो न विधेय इत्यात्मानुशासनं कुर्विति गाथार्थः ॥ ७ ॥ इह जीवियमेव पासहा, तरुण एव वासस[याउ]तस्स तुती । इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया ॥८॥ व्याख्या-अस्मिन्नसारे संसारे धनधान्यादयोऽन्ये पदार्थाः दूरे तिष्ठन्तु, एकं जीवानामायुरप्यशाश्वतं, यतो वर्षशतप्रमाणमप्यायुस्तरुणत्वे एव त्रुट्यति, तदाऽऽयुर्वर्षशतप्रमाणमपि सागरोपमापेक्षया मेषोन्मेषप्रमाणं वर्तते, स्तोककालावस्थानप्रायं वा समस्ति इति ज्ञात्वा रे जीव ! बुध्यस्व, मा मुहः । ईदृशेऽप्यायुषि अशाश्वते एके अविवेकिनः 'गृद्धाः' कामभोगेषु मृञ्छिता एव तिष्ठन्ति, ततश्च नरकादिषु कदर्थनामाप्नुवन्तीति गाथार्थः॥ ८॥ अपिचजे इह आरंभनिस्सिया, आतदंडा एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥ व्याख्या--'इह' मनुष्यलोके ये केचन महामोहाकुलिताः पुरुषा अविवेकिनो हिंसा(दि)सावद्यानुष्ठाने आरम्मे 'निश्रिताः' | आसक्ताः सन्ति ते नरा आत्मनो दण्डका, ते चैकान्तेनैव जन्तूनां 'लूपका' हिंसकाः सदाचारस्य वा धंसका, एवम्भूताश्च Jain Education Inter For Privale & Personal use only jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy