________________
स्ते अतीर्णा अपि संसारोदन्वतस्तटोपान्तवर्तिन एवेति गाथार्थः ॥२॥ पुनरप्युपदेशान्तरमाहअग्गं वणिएहिं आहियं, धारती राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोइणो ॥३॥
व्याख्या-वणिभिर्देशान्तरादाहित-मानीतं 'अग्न्यं ' प्रधानं रत्नाभरणादिकं दौकितं राजानस्तत्कल्पा वा प्रधानवणिज एव (इह जगति ) धारयन्ति, कोऽर्थः १ [यथा ] वणिजो देशान्तरात्सुबहुमूल्यं रत्नाभरणादि आनयन्ति, परं तेषां प्रधानरत्नानां राजान एव भाजनं-राजान एव धारयन्ति, ईश्वरा वा बिभ्रति, तथा आचार्यैरानीतानां पश्चमहाव्रतानां रात्रिभोजन[विरमण]षष्ठानां साधव एव भाजनं, नान्ये इति गाथार्थः ॥ ३ ॥ किश्च
जे इह साताणुगा नरा, अज्झोववन्ना कामेहि मुच्छिया ।
किवणेण समं पगब्भिया, नवि जाणंति समाहिमाहितं ॥४॥ व्याख्या-ये इहलोके मनुष्याः 'सातानुगाः' सुखशीलाः गारवत्र येऽध्युपपन्नाः-गृद्धास्तथा कामेषु शब्दादिषु मृच्छिताः 'कपणा' दीनाः वराकाः इन्द्रियैः पराजिताः तत्समा' स्तद्वत्कामासेबने 'प्रगल्भिताः' धृष्टतां गताः, किमनेन स्तोकेन प्रमादेन संयमविराधना भविष्यतीत्येवं प्रमादवन्तः कर्तव्येषु समस्तमपि संयमं पटवन्मलिनीकुर्वन्ति, ईदृशाश्च ते वीतरागोक्तं समाधि धर्मध्यानादिकं न जानन्तीति गाथार्थः॥ ४ ॥ पुनरप्युपदेशान्तरमाह| वाहेण जहा व विच्छए, अबले होइ गवं पचोइए।से अंतसो अप्पथामए, नाइवहइ अबले विसीयती ॥५
Jain Education inte
For Private & Personal use only
w
ww.jainelibrary.org