________________
Jain Education International
अन्योऽन्यं - परस्परं 'धर्मतः' धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति, पुनरपि सद्धमें प्रवर्त्तयन्तीति गाथार्थः ॥ २६ ॥ किञ्च - माहपुरा पणाम, अभिकंखे उवधिं धुणित्तए । जे दूमणएहिं णो णता, ते जाणांति समाहिमाहितं ॥
व्याख्या - 'पुरा प्रणामकान् ' पूर्व भुक्तान् शब्दादिविषयान् ' मा प्रेक्षस्व ' मा स्मर, तेषां स्मरणमपि महतेऽनर्थाय अनागतांश्च नाकांक्षेत्, अभिकाँक्षेत् ' उपधि' मायां अष्टप्रकारं वा कर्म, तद्धननाय - तदपनयनायाभिकाँक्षे- दभिलषेत् तदेवानुष्ठानं कुर्याद्येन माया अष्टप्रकारं च कर्म अपयाति । तथा 'जे दूमणएहिं 'ति दुष्टमनःकारि[ण उपतापकारि]णो वा शब्दादयो विषयास्तेषु ये महासच्वा न नताः, कोऽर्थः ? ये पञ्चविधविषयेषु नासक्तास्ते सन्मार्गानुष्ठायिनः आत्मनि आहितंआत्मनि व्यवस्थितं 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं जानन्ति नान्य इति गाथार्थः ॥ २७ ॥
काही होज संजए, पासणीए ण य संपसारए । नच्चा धम्मं अणुत्तरं, कय किरिए ण यावि मामए ॥ २८|
व्याख्या - संयतो गोचरचर्यायां भ्रमन् काथिको न भवति-न कथाः कथयति, तथा विरुद्धां- पैशून्यापादिनीं रूपादिविकथां वा न कुर्यात्, राजादिना प्रश्नादि पृष्टः सन् प्रश्नादिकथ [कः - प्राश्नि] को न स्यात् न च सम्प्रसारको देववृष्टिपण्यसमर्धमहर्घादिअर्थ काण्डा दिसूचककथाविस्तारको भवेत् । किं कृत्वा ? ज्ञात्वा अनुत्तरं धर्म, सम्यग्ज्ञातस्य धर्मस्येतावदेव फलं, यद्विकथापरिहारेण सम्यक्रियावान् स्यात् । ' कयकिरिए 'त्ति कृतक्रियश्च + ममेदमहमस्य स्वामीत्येवं + “ कृता-स्वभ्यस्ता ' क्रिया' संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च न चापि मामको " इति बृहद्त्तौ
For Private & Personal Use Only
www.jainelibrary.org