________________
छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलेति माहणे, सीउण्हं वयसाहियासए ॥२२॥ ___व्याख्या-'छन्दो'ऽभिप्रायस्तेन स्वस्वाभिप्रायेण [ इमाः प्रजा:-अयं ] लोकः 'पलेति' तासु तासु नरकादिगतिषु पर्यटति, एके दर्शनिनः स्वकदाग्रहिणः अजादिकवधमपि धर्मकारण ब्रुवते, तथा धनधान्यादिपरिग्रहे पृथिव्याद्यारम्भेऽपि धर्ममेव जानते, एवं लोको 'बहुमायः' कपटप्रधानः (माया) मुग्धजनरञ्जनाय कपटात्मिकाः क्रियाः कुर्वन्ति, परं श्रीवीतरागप्ररूपितं मार्ग सम्पर न जानन्ति, अज्ञानावृत्तत्वात् , तेन सत्येतरव्यक्ति न लभन्ते, इति ज्ञात्वा मनिर्माहनः 'विकटेन' प्रकटेन अमायेन कर्मणा मोक्षे संयमे वा प्रकर्षेग लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, शीतोष्णादिपरीपहा 'वयसा त्रिकरणशुद्ध्या सम्यगधिसहेदिति गाथार्थः ।। २२ ।। अपिचकुजए अपराजिए जहा, अक्खेहिं कुप्तलेहिं दीवयं । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ॥२३॥ - व्याख्या-'कुजयो' द्यूतकारः अपराजितो 'दीव्यन् ' कुशलत्वादन्यैर्न जीयते, अक्षः-कपर्दकैः रममाणः 'कडमेव' । चतुष्कमेव गृहाति, तल्लब्धजयत्वात्तेनैव चतुष्केण दीव्यति, न 'कलिं' एककं, नापि त्रैत' त्रिक, नापि 'दावरं। द्विकं गृहाति, चतुष्केणैव लब्धजयत्वादिति गाथार्थः ॥ २३ ॥ अथ दार्शन्तिकमाहएवं लोगम्मि ताइणा, बुइए जे धम्मे अगुत्तरे।तं गिल हियति उत्तम,कडमेव सेसऽवहाय पंडिए॥२४॥
व्याख्या-यथा युतकार प्राप्तजयत्वात्सर्वोत्तमं दीव्यश्चतुष्कमेव गृह्णाति, एवमस्मिल्लोके 'तायिना' सर्वक्षेनोक्तो
VI
Jain Education International
For Private Personal Use Only
www.jainelibrary.org