________________
Jain Education Inte
गाथार्थः ॥ १३ ॥ तथा
थत्थम अणाले, समविसमाई मुणी हियासए ।
चिरगा अदुवा विभेवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥
व्याख्या - तथा भिक्षुर्यत्रैव सूर्योऽस्तमुपैति तत्रैव तिष्ठति, तथा ' अनाकुल: ' परीपहोपसगैरनाकुलो भवति, मुनियथावस्थित संसारस्वरूपज्ञः समविषमाणि शयनासनादीनि अनुकूल प्रतिकूलानि सम्यग् ' रागद्वेषरहिततयाऽधिसहेत । तथा ''चरका: ' दंशमशकादयस्तथा 'भैरवा' भयानका अशिवास्तथा 'सरीसृपाः' सर्पादयो भवेयुस्तत्कृतांश्चोपसर्गान् परीषदांच सम्यगधिस हेतेति गाथार्थः ॥ १४ ॥
4
साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याह
तिरिया मणुया य दिवगा, उवसग्गा तिविहाऽहियासिया ।
लोमादियंपि न हरिसे, सुन्नागारगते महामुनी ॥ १५ ॥
व्याख्या-तिर्यङ्मनुष्यदेवकृतानुपसर्गानधिसहेत +रोमोद्गममपि न कुर्यात्, दृष्टिमुखविकारादिपरिग्रहः, क्व स्थितः १ शून्यागारगतः - शून्यगृहव्यवस्थितः, उपलक्षणार्थत्वात्पितृवनादिस्थितो महामुनिर्जिन कल्पिकादिरिति गाथार्थः ॥ १९५॥ किञ्च+ ' लोमादिकमपि न हर्षेत् भयेन ' । ' आदिग्रहणाद् दृष्टि० ' इति बृहद्वृत्तौ ।
For Private & Personal Use Only
www.jainelibrary.org