SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिकान्वितम् । ॥ ३५ ॥ पलिमंथमहं वियाणिया, जाविय वंदणपूयणा इहं । सुहुमं सलं दुरुद्धरं, तं पि जिणे एएण पंडिए ॥११॥ अस्या चायमर्थः- साधोः स्वाध्यायध्यानपरस्यैकान्त निःस्पृहस्य योऽपि चायं परैर्वन्दना पूजनादिकः सत्कारः क्रियते, असावपि सद्गतेः सदनुष्ठानस्य वा महान् ' पलिमन्थो' विघ्नः, आस्तां तावत्स्वजनादिष्वभिष्वङ्गः - रागस्तमित्येवं परिज्ञाय सूक्ष्मं शल्यं दुरुद्वरं चातस्तमपि जये-दपनयेत्पण्डित ' एतेन ' वक्ष्यमाणेनेति गाथार्थः ॥ ११ ॥ एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया । भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंबुडे ॥१२॥ व्याख्या - तथा भिक्षुरेक एव द्रव्यत एकल्लविहारी भावतो रागद्वेपरहितश्चरेत् एवं स्थानासनशयनादिष्वप्येकाक्येव ' समाहितो ' धर्मादिध्यानयुक्तः स्यात्, सर्वास्वप्यवस्थासु रागद्वेषविरहात्समाहित एव स्यात् । ' उपधाने ' तपस्यनिगूहितबलवीर्यो ' वाग्गुप्तः ' सुपर्यालोचिताभिधायी ' अध्यात्मं ' मनस्तेन संवृत्तो भिक्षुर्भवेदिति गाथार्थः ॥ १२ ॥ किञ्च - णो पिहे णावपंगुणे, दारं सुन्नघरस्स संजए । पुट्ठे ण उदाहरे वयं ण समुच्छे एगे संथरे तणं ॥ १३ ॥ व्याख्या- तथा भिक्षुः क्वापि शयनार्थी शून्यगृहस्थितो द्वारं कपाटादिना न स्थगयति 'नावपंगुणे 'ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा स्थितः केनचिद्धर्मादिकं मार्गादिकं वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् न ब्रूयात्, जिनकल्पिकादिविद्यामपि न ब्रूयात्, तथा न समुच्छिन्द्या- तृणानि कचवरं वा प्रमार्जनेन नापनयति, नापि स्वापार्थी कश्विदाभि ग्रहिकस्तृणादिकं संस्तरेत्-तृणैरपि संस्तारकं न कुर्यात् किं पुनः कम्बल्यादिना, अन्योऽपि साधुः शुषिरतृणं न संस्तरेदिति Jain Education International For Private & Personal Use Only वैताली - याध्ययने द्वितीयो देश के त्रिविधोप सर्ग सहनोपदेशः । ॥ ३५ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy