SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ इह लोगदुहावहं विदू, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ? ॥१०॥ ___ व्याख्या-इहलोकेत्यादि, इहलोके परलोके हिरण्यस्वजनादिममतोत्पादितकर्मजं दुःखं भवति, तदुपादाने कर्मो- IN पादानं, तथा हिरण्यादिपरिग्रहबुझ्या स्वीक्रियते, परं विध्वंसनधर्म-न चिरावस्थायि, एवं जानन् कः सकर्णो मनुष्यः 'अगारवासं ' गृहवासमावसेत् ? यतः-" दाराः परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा ॥१॥" इति गाथार्थः ॥१०॥ पुनरप्युपदेशान्तरमाहमहता पलिगोवजाणिया, जाविय वंदणपूयणा इहं। सुहमे सल्ले दुरुद्धरे, विउमंता पजहेज संथवं ॥११॥ ___ व्याख्या-इह साधोः स्वजनाद्यभिष्वङ्गो भावतः 'पलिगोपो' कर्दमस्तत्समो जानीहि, यथा महान् पङ्कः प्राणिनां दुरुत्तरस्तथा स्वजनादिस्नेहः, इति ज्ञात्वा राजादिनिकायस्य[या] वन्दनापूजना साऽपि साधोः पलिमन्थकरी-स्वाध्यायादिविघ्नकरी मन्तव्या, ततश्च साधुना कर्मोपशम फलमित्येवं मत्वा राजादिवन्दनपूजनादौ उत्सेको न विधेयः । किमिति ? यतो गर्वात्मकमेतदुरुद्धरं सूक्ष्मं शल्यं वर्तते, इति ज्ञात्वा विद्वान् साधुस्तेषु 'संस्तव' परिचयं प्रजह्यात्-त्यजेदिति गाथार्थः ॥११॥ अत्र नागार्जुनीया अप्येवं पठन्ति ++ नेयं निम्नोल्लिखिता गाथा व्याख्याता हर्षकुलगणिभिः । Jain Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy