SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ ३४ ॥ Jain Education Inte अथ बहुजननमने धर्मे व्यवस्थितो यादृक्षं धर्मं प्रकाशयति तद्दर्शयितुमाह बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया । जे मोणपदं उवट्ठिते, विरतिं तत्थ अकासि पंडिए ॥ ८ ॥ व्याख्या - बहवोऽनन्ताः प्राणिनः पृथक् पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तापर्याप्तभेदेन नरकगत्यादिभेदेन वा संसारमाश्रिताः, ततस्ते सर्वेऽपि प्राणिनः सुखाभिलाषिणो दुःखद्विष इति पर्यालोच्य यस्तेषु समतां आनयति- आत्मसाम्यं गणयति स साधुः यः पुनर्मौनीन्द्रपदमुपस्थितस्तेषु माध्यस्थ्यमुपस्थितस्तद्वधे विरतिं करोति स पण्डित इति गाथार्थः ॥ ८ ॥ अपि चधम्मस्य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, णो लब्भंति णियं परिग्गहं ॥ ९ ॥ व्याख्या - स पूर्वोक्तगुणयुक्तः साधुर्धर्मस्य श्रुतचारित्ररूपस्य पारगः सिद्धान्तपारगामी, स एव सिद्धान्ततश्ववेत्ता सम्यक् चारित्रानुष्ठायी वा चारित्रमधिकृत्याह-' आरम्भस्य ' सावद्यानुष्ठानरूपस्य ' अन्ते प्रान्ते स्थित इति, आरम्भनिवृत्त इति भावः एवंविधो मुनिर्भवति । ये पुननैवंविधा भवन्ति ते अकृतसुकृताः सन्तो मरणे दुःखे वा समुपस्थिते आत्मानं शोचन्ति यदि वा इष्टमरणादावर्थनाशे वा 'ममाइणो 'ति ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचन्ति ततश्च ते शोचमाना अपि गतं मृतं नष्टं परिग्रहं आत्मीयमभीष्टं वा न लभन्ते-न प्राप्नुवन्ति, यदि वा धर्मस्य पारगं मुनिं आरम्भनिवृत्तं स्वजना मातापित्रादयो ममत्वयुक्ताः स्नेहालवः शोचन्ति परं न च तं साधुं निजम-प्यात्मीयपरिग्रहबुद्ध्या गृहीतमपि लभन्ते, नात्मसात्कुर्वन्तीति गाथार्थः ॥ ९ ॥ तदेवाह - For Private & Personal Use Only २ वैतालीयाध्ययने द्वितीयो देश के स्वजनाद्यभिष्वङ्गस्य वर्जनम् । ॥ ३४ ॥ ww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy